Lakshmi Narasimha Swamy Sahasranamam is the 1000 names of Lakshmi Narasimha Swamy, one who protects devotees from all kinds of evil and blesses with desire fulfillment. One Thousand transcendental names of Lord Sri Lakshmi Narasimha. This powerful stotra was spoken by Lord Brahma and it is found in Sri Narasimha Purana. The Supreme Lord along with his eternal consort blesses those who take shelter of this incredible stotra by awarding supreme protection from evil forces, bestows fearlessness, victory over enemies, resolves any conflicts in marriage life, cures any incurable diseases and fulfils all the cherished desires of the devotee. The fruit of hearing this stotra is unimaginable and unexplainable but definitely a treasure filled with all good fortune.
Sri Lakshmi Narasimha Sahasranama Stotram – श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम्
॥ पूर्वपीठिका ॥
मार्कण्डेय उवाच ।
एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह ।
नृसिंहस्याङ्गसम्भूतैर्नारसिंहैरनेकशः ॥ १ ॥
दैत्यकोटिर्हतास्तत्र केचिद्भीताः पलायिताः ।
तं दृष्ट्वातीव सङ्क्रुद्धो हिरण्यकशिपुः स्वयम् ॥ २ ॥
भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः ।
ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ ३ ॥
द्वन्द्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् ।
दैत्येन्द्रे साहसं दृष्ट्वा देवाश्चेन्द्रपुरोगमाः ॥ ४ ॥
श्रेयः कस्य भवेदत्र इति चिन्तापरा भवन् ।
तदा क्रुद्धो नृसिंहस्तु दैत्येन्द्रप्रहितान्यपि ॥ ५ ॥
विष्णुचक्रं महाचक्रं कालचक्रं तु वैष्णवम् ।
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशासनम् ॥ ६ ॥
आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
भार्गवादि बहून्यस्त्राण्यभक्षयत कोपनः ॥ ७ ॥
सन्ध्याकाले सभाद्वारे स्वाङ्के निक्षिप्य भैरवः ।
ततः खड्गधरं दैत्यं जग्राह नरकेसरी ॥ ८ ॥
हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः ।
उद्धृत्य चान्त्रमालानि नखैर्वज्रसमप्रभैः ॥ ९ ॥
मेने कृतार्थमात्मानं सर्वतः पर्यवैक्षत ।
हर्षिता देवताः सर्वाः पुष्पवृष्टिमवाकिरन् ॥ १० ॥
देवदुन्दुभयो नेदुर्विमलाश्च दिशोऽभवन् ।
नरसिंहमतीवोग्रं विकीर्णवदनं भृशम् ॥ ११ ॥
लेलिहानं च गर्जन्तं कालानलसमप्रभम् ।
अतिरौद्रं महाकायं महादंष्ट्रं महारुतम् ॥ १२ ॥
महासिंहं महारूपं दृष्ट्वा सङ्क्षुभितं जगत् ।
सर्वदेवगणैः सार्थं तत्रागत्य पितामहः ॥ १३ ॥
आगन्तुकैर्भूतपूर्वैर्वर्तमानैरनुत्तमैः ।
गुणैर्नामसहस्रेण तुष्टाव श्रुतिसम्मतैः ॥ १४ ॥
ओं नमः श्रीमद्दिव्यलक्ष्मीनृसिंह सहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः, श्रीलक्ष्मीनृसिंहो देवता, अनुष्टुप्छन्दः, श्रीनृसिंहः परमात्मा बीजं, लक्ष्मीर्माया शक्तिः, जीवो बीजं, बुद्धिः शक्तिः, उदानवायुः बीजं, सरस्वती शक्तिः, व्यञ्जनानि बीजानि, स्वराः शक्तयः, ओं क्ष्रौं ह्रीं इति बीजानि, ओं श्रीं
अं आं इति शक्तयः, विकीर्णनखदंष्ट्रायुधायेति कीलकं, अकारादिति बोधकं, श्रीलक्ष्मीनृसिंह प्रसादसिद्ध्यर्थे श्रीलक्ष्मीनृसिंह सहस्रनामस्तोत्र मन्त्रजपे विनियोगः ।
न्यासः –
ओं श्रीलक्ष्मीनृसिंहाय नमः – अङ्गुष्ठाभ्यां नमः ।
ओं वज्रनखाय नमः – तर्जनीभ्यां नमः ।
ओं महारुद्राय नमः – मध्यमाभ्यां नमः ।
ओं सर्वतोमुखाय नमः – अनामिकाभ्यां नमः ।
ओं विकटास्याय नमः – कनिष्ठिकाभ्यां नमः ।
ओं वीराय नमः – करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
दिग्बन्धः –
ओं ऐन्द्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं नैरृतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं वारुणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं कौबेरीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं ईशानीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं अधस्ताद्दिशं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं अन्तरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
अथ ध्यानम् ।
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षं चक्रपिनाकसाभयकरान् बिभ्राणमर्कच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १ ॥
उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् ।
भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ २ ॥
अथ स्तोत्रम् ।
ब्रह्मोवाच ।
ओं ह्रीं श्रीं ऐं क्ष्रौम् ॥
ओं नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १ ॥
वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ २ ॥
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३ ॥
परात्परपरेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४ ॥
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ ५ ॥
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६ ॥
सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय रोषाय जलवासाय ते नमः ॥ ७ ॥
भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८ ॥
नमो मूलाधिवासाय धर्मवासाय धन्विने ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९ ॥
शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥ १० ॥
निष्प्रपञ्चाय निर्वाणप्रदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलाय च ॥ ११ ॥
निमेषाय निबन्धाय निमेषगमनाय च ।
निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥ १२ ॥
निर्मलाय निबन्धाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३ ॥
सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ १४ ॥
सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५ ॥
कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६ ॥
दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७ ॥
प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्ज्वलाय च ॥ १८ ॥
ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ १९ ॥
कालान्तकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय शक्राय वषट्चक्राय चक्रिणे ॥ २० ॥
अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१ ॥
सङ्क्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥ २२ ॥
अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोरघोरतराय च ॥ २३ ॥
नमोऽस्त्वघोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणाऽऽर्याय शम्भवे ॥ २४ ॥
अमोघाय गुणौघाय अनघायाऽघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ २५ ॥
मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ २६ ॥
व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विकटास्याय वीराय विष्टरश्रवसे नमः ॥ २७ ॥
विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८ ॥
विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ २९ ॥
विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३० ॥
वीतरागाय विप्राय विटङ्कनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१ ॥
विडम्बनाय वित्ताय विश्रुताय वियोनये । [चिदम्बराय]
विह्वलाय विवादाय नमो व्याहृतये नमः ॥ ३२ ॥
विलासाय विकल्पाय महाकल्पाय ते नमः ।
बहुकल्पाय कल्पाय कल्पातीताय शिल्पिने ॥ ३३ ॥
कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तटित्प्रभाय तार्क्ष्याय तरुणाय तरस्विने ॥ ३४ ॥
तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३५ ॥
तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३६ ॥
शतपत्रायताक्षाय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३७ ॥
नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ ३८ ॥
नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥ ३९ ॥
सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ ४० ॥
नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्णाय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ ४१ ॥
धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४२ ॥
कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४३ ॥
शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ ४४ ॥
भूतपालाय भूताय भूतावासाय भूतिने ।
भूतवेतालघाताय भूताधिपतये नमः ॥ ४५ ॥
भूतग्रहविनाशाय भूतसम्यमते नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४६ ॥
सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।
सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥ ४७ ॥
सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४८ ॥
सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४९ ॥
सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने ।
पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये ॥ ५० ॥
बहुशृङ्गाय लिङ्गाय महाशृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५१ ॥
महादेवाय देवाय मातुलिङ्गधराय च ।
महामायाप्रसूताय प्रस्तुताय च मायिने ॥ ५२ ॥
अनन्तानन्तरूपाय मायिने जलशायिने ।
महोदराय मन्दाय मददाय मदाय च ॥ ५३ ॥
मधुकैटभहन्त्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥ ५४ ॥
चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥ ५५ ॥
महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमयनृसिंहाय नमस्ते चित्रभानवे ॥ ५६ ॥
महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥ ५७ ॥
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ ५८ ॥
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ।
वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥ ५९ ॥
कण्ठीरवाय लुण्ठाय निश्शठाय हठाय च ।
सत्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥ ६० ॥
ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे ।
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६१ ॥
त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ ६२ ॥
अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनन्ताय अमितायामितौजसे ॥ ६३ ॥
अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ ६४ ॥
नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय सङ्घाय वैद्युताय नमो नमः ॥ ६५ ॥
अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।
वागीश्वराय गोपाय गोहिताय गवां पते ॥ ६६ ॥
गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ ६७ ॥
पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६८ ॥
पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६९ ॥
शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ ७० ॥
ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७१ ॥
परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥ ७२ ॥
अथर्वशिरसे नित्यमशनिप्रमिताय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ ७३ ॥
लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७४ ॥
लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७५ ॥
पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुण्डलिनं सर्वाङ्गं सर्वतोमुखम् ॥ ७६ ॥
सर्वतः पाणिपादोरः सर्वतोऽक्षिशिरोमुखम् ।
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ ७७ ॥
बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥ ७८ ॥
महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ ७९ ॥
आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा ।
आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतः शिवम् ॥ ८० ॥
नमोऽस्तु नारायणनारसिंह
नमोऽस्तु नारायणवीरसिंह ।
नमोऽस्तु नारायणक्रूरसिंह
नमोऽस्तु नारायणदिव्यसिंह ॥ ८१ ॥
नमोऽस्तु नारायणव्याघ्रसिंह
नमोऽस्तु नारायणपुच्छसिंह ।
नमोऽस्तु नारायणपूर्णसिंह
नमोऽस्तु नारायणरौद्रसिंह ॥ ८२ ॥
नमो नमो भीषणभद्रसिंह
नमो नमो विह्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह
नमो नमो निर्मलचित्रसिंह ॥ ८३ ॥
नमो नमो निर्जितकालसिंह
नमो नमः कल्पितकल्पसिंह ।
नमो नमो कामदकामसिंह
नमो नमस्ते भुवनैकसिंह ॥ ८४ ॥
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥ ८५ ॥
अमी हित्वा सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा मुनयः सिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ८६ ॥
रुद्रादित्यावसवो ये च साध्या
विश्वेदेवा मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ति त्वां विस्मिताश्चैव सर्वे ॥ ८७ ॥
लेलिह्यसे ग्रसमानः समन्ता-
-ल्लोकान् समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ८८ ॥
भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च ।
पृथिवीमन्तरिक्षं त्वं पर्वतारण्यमेव च ॥ ८९ ॥
कलाकाष्ठाविलिप्तस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसन्ध्या च पक्षमासर्तुवत्सराः ॥ ९० ॥
युगादिर्युगभेदस्त्वं सम्युगो युगसन्धयः ।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ ९१ ॥
करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ९२ ॥
प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परञ्ज्योतिरात्मज्योतिः सनातनः ॥ ९३ ॥
ज्योतिर्लोकस्वरूपस्त्वं ज्ञो ज्योतिर्ज्योतिषां पतिः । [ज्योतिर्ज्ञो]
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ ९४ ॥
हन्तकारो निराकारो वेगाकारश्च शङ्करः ।
अकारादिहकारान्त ओङ्कारो लोककारकः ॥ ९५ ॥
एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्वेदमयोत्तमः ॥ ९६ ॥
लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ ९७ ॥
लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ ९८ ॥
अनादिस्त्वमनन्तस्त्वमभूतो भूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९९ ॥
त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुः सखा ।
सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥ १०० ॥
नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥ १०१ ॥
भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ १०२ ॥
योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ १०३ ॥
धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च सन्धात्रे विधात्रे च धराय च ॥ १०४ ॥
दामोदराय दान्ताय दानवान्तकराय च ।
नमः संसारवैद्याय भेषजाय नमो नमः ॥ १०५ ॥
सीरध्वजाय शीताय वातायाप्रमिताय च ।
सारस्वताय संसारनाशनायाक्षमालिने ॥ १०६ ॥
असिचर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥ १०७ ॥
सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ १०८ ॥
कवये पद्मगर्भाय भूतगर्भ घृणानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०९ ॥
नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ ११० ॥
हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥ १११ ॥
हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यशृङ्गाय निःशृङ्गाय च शृङ्गिणे ॥ ११२ ॥
भैरवाय सुकेशाय भीषणायान्त्रमालिने ।
चण्डाय रुण्डमालाय नमो दण्डधराय च ॥ ११३ ॥
अखण्डतत्त्वरूपाय कमण्डलुधराय च ।
नमस्ते खण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११४ ॥
नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ ११५ ॥
नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११६ ॥
पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय अन्तरिक्षस्थिताय च ॥ ११७ ॥
कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।
अनन्तसिंहसिंहाय अनन्तगतये नमः ॥ ११८ ॥
नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।
अभयङ्करसिंहाय नरसिंहाय ते नमः ॥ ११९ ॥
नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥ १२० ॥
सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ।
सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ १२१ ॥
सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छन्दाय च ते नमः ॥ १२२ ॥
श्रीवत्साय सुवेषाय श्रुतये श्रुतिमूर्तये ।
शुचिश्रवाय शूराय सुप्रभाय सुधन्विने ॥ १२३ ॥
शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥ १२४ ॥
सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ १२५ ॥
सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
साङ्ख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ १२६ ॥
नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ।
खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥ १२७ ॥
नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।
नदीवासाय नग्नाय नानारूपधराय च ॥ १२८ ॥
नागेश्वराय नागाय नमिताय नराय च ।
नागान्तकरथायैव नरनारायणाय च ॥ १२९ ॥
नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय नरसिंहाय ते नमः ॥ १३० ॥
विक्रमाक्रान्तलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणान्तकराय च ॥ १३१ ॥
नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १३२ ॥
आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १३३ ॥
गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३४ ॥
शालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ १३५ ॥
योगिहृत्पद्मवासाय महाहासाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३६ ॥
नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ १३७ ॥
रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।
धुरन्धराय धूर्ताय दुर्धराय धराय च ॥ १३८ ॥
दुर्मदाय दुरन्ताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ १३९ ॥
दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ १४० ॥
उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय आरक्तरसनाय च ॥ १४१ ॥
पथ्याय परितोषाय रथ्याय रसिकाय च ।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥ १४२ ॥
ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।
परप्रध्वंसकायैव शङ्खचक्रधराय च ॥ १४३ ॥
गदापद्मधरायैव पञ्चबाणधराय च ।
कामेश्वराय कामाय कामपालाय कामिने ॥ १४४ ॥
नमः कामविहाराय कामरूपधराय च ।
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ १४५ ॥
नमः सोमाय वामाय वामदेवाय ते नमः ।
सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ १४६ ॥
कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीषदायैव भीमविक्रमणाय च ॥ १४७ ॥
मृगग्रीवाय जीवाय जितायाजितकारिणे ।
जटिने जामदग्न्याय नमस्ते जातवेदसे ॥ १४८ ॥
जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायाण्डजाय स्वेदजायोद्भिजाय च ॥ १४९ ॥
जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥ १५० ॥
जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ १५१ ॥
इन्द्रियायेन्द्रियज्ञाय नमोऽस्त्विन्द्रानुजाय च ।
अतीन्द्रियाय साराय इन्दिरापतये नमः ॥ १५२ ॥
ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ १५३ ॥
व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ १५४ ॥
सुकुमाराय रामाय शुभाचाराय वै नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ १५५ ॥
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ १५६ ॥
चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये ।
षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ १५७ ॥
धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।
भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ १५८ ॥
प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च ।
स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥ १५९ ॥
प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ १६० ॥
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ १६१ ॥
उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥ १६२ ॥
दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥ १६३ ॥
उग्रश्रवाय शान्ताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ १६४ ॥
नमस्ते पुण्डरीकाक्ष नमस्ते दुरितक्षय ।
नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥ १६५ ॥
नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।
यज्ञनेत्र नमस्तेऽस्तु कालध्वज जयध्वज ॥ १६६ ॥
अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।
महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ १६७ ॥
धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ।
पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ १६८ ॥
नमो नमस्ते जयसिंहरूप
नमो नमस्ते नरसिंहरूप ।
नमो नमस्ते रणसिंहरूप
नमो नमस्ते नरसिंहरूप ॥ १६९ ॥
उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ १७० ॥
अतिरौद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वा तु शङ्किताः सर्वा देवतास्त्वामुपागताः ॥ १७१ ॥
एतान्पश्य महेशानं ब्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १७२ ॥
सर्वान् ऋषिगणान् सप्तमातृर्गौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगणान्यपि ॥ १७३ ॥
प्रसीद त्वं महासिंह उग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शान्तिभावं च धारय ॥ १७४ ॥
इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७५ ॥
मार्कण्डेय उवाच ।
दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ १७६ ॥
अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान् सुरोत्तमान् ।
सन्त्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७७ ॥
श्रीनृसिंह उवाच ।
भो भो देववराः सर्वे पितामहपुरोगमाः ।
शृणुध्वं मम वाक्यं च भवन्तु विगतज्वराः ॥ १७८ ॥
यद्धितं भवतां नूनं तत्करिष्यामि साम्प्रतम् ।
एवं नामसहस्रं मे त्रिसन्ध्यं यः पठेत् शुचिः ॥ १७९ ॥
शृणोति वा श्रावयति पूजान्ते भक्तिसम्युतः ।
सर्वान् कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १८० ॥
यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ १८१ ॥
सर्वपूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १८२ ॥
सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् ।
मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १८३ ॥
भूतभेतालकूष्माण्ड पिशाचब्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ १८४ ॥
दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः ।
ये च सन्ध्याग्रहाः सर्वे चाण्डालग्रहसञ्ज्ञिकाः ॥ १८५ ॥
निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः ।
कुक्षिरोगं च हृद्रोगं शूलापस्मारमेव च ॥ १८६ ॥
ऐकाहिकं द्व्याहिकं च चातुर्थिकमथ ज्वरम् ।
आधयो व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ १८७ ॥
शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणात् सुराः ।
राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८८ ॥
जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् ।
विषाण्यप्यमृता यान्ति नृसिंहस्मरणात्सुराः ॥ १८९ ॥
राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १९० ॥
व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १९१ ॥
सुपुत्रं धनधान्यं च भवन्ति विगतज्वराः ।
एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ १९२ ॥
जलसन्तरणे चैव पर्वतारण्यमेव च ।
वनेऽपि विचिरन्मर्त्यो दुर्गमे विषमे पथि ॥ १९३ ॥
बिलप्रवेशने चापि नारसिंहं न विस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ १९४ ॥
मुच्यते सर्वपापेभ्यः कृतघ्नः स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृविनिन्दकः ॥ १९५ ॥
असत्यस्तु तेथा यज्ञनिन्दको लोकनिन्दकः ।
स्मृत्वा सकृन्नृसिंहं तु मुच्यते सर्वकिल्बिषैः ॥ १९६ ॥
बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ १९७ ॥
गच्छन् तिष्ठन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ।
नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ १९८ ॥
पुमान्न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।
नारी सुभगतामेति सौभाग्यं च स्वरूपताम् ॥ १९९ ॥
भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति ।
न सपत्नीं च जन्मान्ते सम्यक् ज्ञानी भवेद्विजः ॥ २०० ॥
भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ २०१ ॥
मार्कण्डेय उवाच ।
इत्युक्त्वा देवदेवेशो लक्ष्मीमालिङ्ग्य लीलया ।
प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ २०२ ॥
श्रीशैलस्य प्रसादे तु लोकानां च हिताय वै ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ २०३ ॥
ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् ।
दैवतैः सह सुप्रीतो ह्यात्मलोकं ययौ स्वयम् ॥ २०४ ॥
हिरण्यकशिपोर्भीत्या प्रपलाय्य शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिम् ॥ २०५ ॥
नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः ।
दिक्पालाश्च सुसम्प्राप्तः स्वस्वस्थानमनुत्तमम् ॥ २०६ ॥
धर्मे मतिः समस्तानां प्रजानामभवत्तदा ।
एवं नामसहस्रं मे ब्रह्मणा निर्मितं पुरा ॥ २०७ ॥
पुत्रानध्यापयामास सनकादीन्महामतिः ।
ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ २०८ ॥
देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०९ ॥
यस्य स्तोत्रस्य पाठाद्धि विशुद्धमनसोऽभवन् ।
सनत्कुमारः सम्प्राप्तो भारद्वाजो महामतिः ॥ २१० ॥
तस्मादाङ्गिरसः प्राप्तस्तस्मात्प्राप्तो महाक्रतुः ।
जग्राह भार्गवस्तस्मादग्निमित्राय सोऽब्रवीत् ॥ २११।
जैगीषव्याय स प्राह सोऽब्रवीच्च्यवनाय च ।
तस्मा उवाच शाण्डिल्यो गर्गाय प्राह वै मुनिः ॥ २१२ ॥
क्रतुञ्जयाय स प्राह जतुकर्ण्याय सम्यमी ।
विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च ॥ २१३ ॥
क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ।
सिंहतेजाश्च तस्माच्च श्रीप्रियाय ददौ च नः ॥ २१४ ॥ [सः]
उपदिष्टोऽस्मि तेनाहमिदं नामसहस्रकम् ।
तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न हि ॥ २१५ ॥
मया च कथितं नारसिंहस्तोत्रमिदं तव ।
त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ॥ २१६ ॥
सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ।
पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ॥ २१७ ॥
प्राप्यसे महतीं सिद्धिं सर्वान् कामान्वरोत्तमान् ।
अयमेव परोधर्मस्त्विदमेव परं तपः ॥ २१८ ॥
इदमेव परं ज्ञानमिदमेव महद्व्रतम् ।
अयमेव सदाचारस्त्वयमेव सदा मखः ॥ २१९ ॥
इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ।
नृसिंहमन्त्रादन्यच्च वैदिकं तु न विद्यते ॥ २२० ॥
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
कथितं ते नृसिंहस्य चरितं पापनाशनम् ॥ २२१ ॥
सर्वमन्त्रमयं तापत्रयोपशमनं परम् ।
सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २२२ ॥
इति श्रीनृसिंहपुराणे नृसिंहप्रादुर्भावे श्रीमद्दिव्य लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम् ॥

Sri Lakshmi Narasimha Sahasranama Stotram
Sri Lakshmi Narasimha Sahasranama Stotram is a sacred Hindu hymn that praises Lord Narasimha, an incarnation of Lord Vishnu, in his fierce form. This stotram consists of 1,000 names (sahasranama) of Lord Lakshmi Narasimha and is recited by devotees to seek his blessings and protection. It is believed to bring peace, prosperity, and protection to those who chant it with devotion.
|| Purvapithika ||
Markandeya Uvaca |
Evam Yuddhamabhudghoram Raudram Daityabalaig Saha |
Nrsimhasyaṅgasambhutairnarasimhairanekasag || 1 ||
Daityakotirhatastatra Kecidbhitag Palayitag |
Tam Drṣtvativa Saṅkruddho Hiranyakasipug Svayam || 2 ||
Bhutapurvairamrtyurme Iti Brahmavaroddhatag |
Vavarṣa Saravarṣena Narasimho Bhrsam Bali || 3 ||
Dvandvayuddhamabhudugram Divyavarṣasahasrakam |
Daityendre Sahasam Drṣtva Devascendrapurogamag || 4 ||
Sreyag Kasya Bhavedatra Iti Cintapara Bhavan |
Tada Kruddho Nrsimhastu Daityendraprahitanyapi || 5 ||
Viṣnucakram Mahacakram Kalacakram Tu Vaiṣnavam |
Raudram Pasupatam Brahmam Kauberam Kulisasanam || 6 ||
Agneyam Varunam Saumyam Mohanam Sauraparvatam |
Bhargavadi Bahunyastranyabhakṣayata Kopanag || 7 ||
Sandhyakale Sabhadvare Svaṅke Nikṣipya Bhairavag |
Tatag Khadgadharam Daityam Jagraha Narakesari || 8 ||
Hiranyakasiporvakṣo Vidaryativa Roṣitag |
Uddhrtya Cantramalani Nakhairvajrasamaprabhaig || 9 ||
Mene Krtarthamatmanam Sarvatag Paryavaikṣata |
Harṣita Devatag Sarvag Puṣpavrṣtimavakiran || 10 ||
Devadundubhayo Nedurvimalasca Disobhavan |
Narasimhamativogram Vikirnavadanam Bhrsam || 11 ||
Lelihanam Ca Garjantam Kalanalasamaprabham |
Atiraudram Mahakayam Mahadamṣtram Maharutam || 12 ||
Mahasimham Maharupam Drṣtva Saṅkṣubhitam Jagat |
Sarvadevaganaig Sartham Tatragatya Pitamahag || 13 ||
Agantukairbhutapurvairvartamanairanuttamaig |
Gunairnamasahasrena Tuṣtava Srutisammataig || 14 ||
Om Namag Srimaddivyalakṣminrsimha Sahasranamastotramahamantrasya Brahma Rṣig, Srilakṣminrsimho Devata, Anuṣtupchandag, Srinrsimhag Paramatma Bijam, Lakṣmirmaya Saktig, Jivo Bijam, Buddhig Saktig, Udanavayug Bijam, Sarasvati Saktig, Vyañjanani Bijani, Svarag Saktayag, Om Kṣraum Hrim Iti Bijani, Om Srim
Am Am Iti Saktayag, Vikirnanakhadamṣtrayudhayeti Kilakam, Akaraditi Bodhakam, Srilakṣminrsimha Prasadasiddhyarthe Srilakṣminrsimha Sahasranamastotra Mantrajape Viniyogag |
Nyasag –
Om Srilakṣminrsimhaya Namag – Aṅguṣthabhyam Namag |
Om Vajranakhaya Namag – Tarjanibhyam Namag |
Om Maharudraya Namag – Madhyamabhyam Namag |
Om Sarvatomukhaya Namag – Anamikabhyam Namag |
Om Vikatasyaya Namag – Kaniṣthikabhyam Namag |
Om Viraya Namag – Karatalakaraprṣthabhyam Namag |
Evam Hrdayadinyasag |
Digbandhag –
Om Aindrim Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Agneyim Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Yamyam Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Nairrtim Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Varunim Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Vayavim Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Kauberim Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Isanim Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Urdhvam Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Adhastaddisam Disam Sudarsanena Badhnami Namascakraya Svaha |
Om Antarikṣam Disam Sudarsanena Badhnami Namascakraya Svaha |
Atha Dhyanam |
Satyajñanasukhasvarupamamalam Kṣirabdhimadhye Sthitam
Yogarudhamatiprasannavadanam Bhuṣasahasrojvalam |
Tryakṣam Cakrapinakasabhayakaran Bibhranamarkacchavim
Chatribhutaphanindramindudhavalam Lakṣminrsimham Bhaje || 1 ||
Upasmahe Nrsimhakhyam Brahma Vedantagocaram |
Bhuyolalitasamsaracchedahetum Jagadgurum || 2 ||
Atha Stotram |
Brahmovaca |
Om Hrim Srim Aim Kṣraum ||
Om Namo Narasimhaya Vajradamṣtraya Vajrine |
Vajradehaya Vajraya Namo Vajranakhaya Ca || 1 ||
Vasudevaya Vandyaya Varadaya Varatmane |
Varadabhayahastaya Varaya Vararupine || 2 ||
Varenyaya Variṣthaya Srivaraya Namo Namag |
Prahladavaradayaiva Pratyakṣavaradaya Ca || 3 ||
Paratparaparesaya Pavitraya Pinakine |
Pavanaya Prasannaya Pasine Papaharine || 4 ||
Puruṣtutaya Punyaya Puruhutaya Te Namag |
Tatpuruṣaya Tathyaya Puranapuruṣaya Ca || 5 ||
Purodhase Purvajaya Puṣkarakṣaya Te Namag |
Puṣpahasaya Hasaya Mahahasaya Sarṅgine || 6 ||
Simhaya Simharajaya Jagadvasyaya Te Namag |
At-tahasaya Roṣaya Jalavasaya Te Namag || 7 ||
Bhutavasaya Bhasaya Srinivasaya Khadgine |
Khadgajihvaya Simhaya Khadgavasaya Te Namag || 8 ||
Namo Muladhivasaya Dharmavasaya Dhanvine |
Dhanañjayaya Dhanyaya Namo Mrtyuñjayaya Ca || 9 ||
Subhañjayaya Sutraya Namag Satruñjayaya Ca |
Nirañjanaya Niraya Nirgunaya Gunaya Ca || 10 ||
Niṣprapañcaya Nirvanapradaya Nibidaya Ca |
Niralambaya Nilaya Niṣkalaya Kalaya Ca || 11 ||
Nimeṣaya Nibandhaya Nimeṣagamanaya Ca |
Nirdvandvaya Nirasaya Niscayaya Niraya Ca || 12 ||
Nirmalaya Nibandhaya Nirmohaya Nirakrte |
Namo Nityaya Satyaya Satkarmanirataya Ca || 13 ||
Satyadhvajaya Muñjaya Muñjakesaya Kesine |
Harisaya Ca Seṣaya Gudakesaya Vai Namag || 14 ||
Sukesayordhvakesaya Kesisamharakaya Ca |
Jalesaya Sthalesaya Padmesayograrupine || 15 ||
Kusesayaya Kulaya Kesavaya Namo Namag |
Suktikarnaya Suktaya Raktajihvaya Ragine || 16 ||
Diptarupaya Diptaya Pradiptaya Pralobhine |
Pracchinnaya Prabodhaya Prabhave Vibhave Namag || 17 ||
Prabhañjanaya Panthaya Pramayapramitaya Ca |
Prakasaya Pratapaya Prajvalayojjvalaya Ca || 18 ||
Jvalamalasvarupaya Jvalajjihvaya Jvaline |
Mahojjvalaya Kalaya Kalamurtidharaya Ca || 19 ||
Kalantakaya Kalpaya Kalanaya Krte Namag |
Kalacakraya Sakraya Vaṣatcakraya Cakrine || 20 ||
Akruraya Krtantaya Vikramaya Kramaya Ca |
Krttine Krttivasaya Krtaghnaya Krtatmane || 21 ||
Saṅkramaya Ca Kruddhaya Krantalokatrayaya Ca |
Arupaya Svarupaya Haraye Paramatmane || 22 ||
Ajayayadidevaya Akṣayaya Kṣayaya Ca |
Aghoraya Sughoraya Ghoraghorataraya Ca || 23 ||
Namostvaghoraviryaya Lasadghoraya Te Namag |
Ghoradhyakṣaya Dakṣaya Dakṣinaryaya Sambhave || 24 ||
Amoghaya Gunaughaya Anaghayaghaharine |
Meghanadaya Nadaya Tubhyam Meghatmane Namag || 25 ||
Meghavahanarupaya Meghasyamaya Maline |
Vyalayajñopavitaya Vyaghradehaya Vai Namag || 26 ||
Vyaghrapadaya Ca Vyaghrakarmine Vyapakaya Ca |
Vikatasyaya Viraya Viṣtarasravase Namag || 27 ||
Vikirnanakhadamṣtraya Nakhadamṣtrayudhaya Ca |
Viṣvaksenaya Senaya Vihvalaya Balaya Ca || 28 ||
Virupakṣaya Viraya Viseṣakṣaya Sakṣine |
Vitasokaya Vistirnavadanaya Namo Namag || 29 ||
Vidhanaya Vidheyaya Vijayaya Jayaya Ca |
Vibudhaya Vibhavaya Namo Visvambharaya Ca || 30 ||
Vitaragaya Vipraya Vitaṅkanayanaya Ca |
Vipulaya Vinitaya Visvayone Namo Namag || 31 ||
Vidambanaya Vittaya Visrutaya Viyonaye | [cidambaraya]
Vihvalaya Vivadaya Namo Vyahrtaye Namag || 32 ||
Vilasaya Vikalpaya Mahakalpaya Te Namag |
Bahukalpaya Kalpaya Kalpatitaya Silpine || 33 ||
Kalpanaya Svarupaya Phanitalpaya Vai Namag |
Tatitprabhaya Tarkṣyaya Tarunaya Tarasvine || 34 ||
Tapanaya Tarakṣaya Tapatrayaharaya Ca |
Tarakaya Tamoghnaya Tattvaya Ca Tapasvine || 35 ||
Takṣakaya Tanutraya Tatine Taralaya Ca |
Satarupaya Santaya Satadharaya Te Namag || 36 ||
Satapatrayatakṣaya Sthitaye Satamurtaye |
Satakratusvarupaya Sasvataya Satatmane || 37 ||
Namag Sahasrasirase Sahasravadanaya Ca |
Sahasrakṣaya Devaya Disasrotraya Te Namag || 38 ||
Namag Sahasrajihvaya Mahajihvaya Te Namag |
Sahasranamadheyaya Sahasrakṣidharaya Ca || 39 ||
Sahasrabahave Tubhyam Sahasracaranaya Ca |
Sahasrarkaprakasaya Sahasrayudhadharine || 40 ||
Namag Sthulaya Sukṣmaya Susukṣmaya Namo Namag |
Sukṣunnaya Subhikṣaya Suradhyakṣaya Saurine || 41 ||
Dharmadhyakṣaya Dharmaya Lokadhyakṣaya Vai Namag |
Prajadhyakṣaya Sikṣaya Vipakṣakṣayamurtaye || 42 ||
Kaladhyakṣaya Tikṣnaya Muladhyakṣaya Te Namag |
Adhokṣajaya Mitraya Sumitravarunaya Ca || 43 ||
Satrughnaya Avighnaya Vighnakotiharaya Ca |
Rakṣoghnaya Tamoghnaya Bhutaghnaya Namo Namag || 44 ||
Bhutapalaya Bhutaya Bhutavasaya Bhutine |
Bhutavetalaghataya Bhutadhipataye Namag || 45 ||
Bhutagrahavinasaya Bhutasamyamate Namag |
Mahabhutaya Bhrgave Sarvabhutatmane Namag || 46 ||
Sarvariṣtavinasaya Sarvasampatkaraya Ca |
Sarvadharaya Sarvaya Sarvartiharaye Namag || 47 ||
Sarvadugkhaprasantaya Sarvasaubhagyadayine |
Sarvajñayapyanantaya Sarvasaktidharaya Ca || 48 ||
Sarvaisvaryapradatre Ca Sarvakaryavidhayine |
Sarvajvaravinasaya Sarvarogapaharine || 49 ||
Sarvabhicarahantre Ca Sarvaisvaryavidhayine |
Piṅgakṣayaikasrṅgaya Dvisrṅgaya Maricaye || 50 ||
Bahusrṅgaya Liṅgaya Mahasrṅgaya Te Namag |
Maṅgalyaya Manojñaya Mantavyaya Mahatmane || 51 ||
Mahadevaya Devaya Matuliṅgadharaya Ca |
Mahamayaprasutaya Prastutaya Ca Mayine || 52 ||
Anantanantarupaya Mayine Jalasayine |
Mahodaraya Mandaya Madadaya Madaya Ca || 53 ||
Madhukaitabhahantre Ca Madhavaya Muraraye |
Mahaviryaya Dhairyaya Citraviryaya Te Namag || 54 ||
Citrakurmaya Citraya Namaste Citrabhanave |
Mayatitaya Mayaya Mahaviraya Te Namag || 55 ||
Mahatejaya Bijaya Tejodhamne Ca Bijine |
Tejomayanrsimhaya Namaste Citrabhanave || 56 ||
Mahadamṣtraya Tuṣtaya Namag Puṣtikaraya Ca |
Sipiviṣtaya Hrṣtaya Puṣtaya Parameṣthine || 57 ||
Visiṣtaya Ca Siṣtaya Gariṣthayeṣtadayine |
Namo Jyeṣthaya Sreṣthaya Tuṣtayamitatejase || 58 ||
Aṣtaṅganyastarupaya Sarvaduṣtantakaya Ca |
Vaikunthaya Vikunthaya Kesikanthaya Te Namag || 59 ||
Kanthiravaya Lunthaya Nissathaya Hathaya Ca |
Satvodriktaya Rudraya Rgyajussamagaya Ca || 60 ||
Rtudhvajaya Vajraya Mantrarajaya Mantrine |
Trinetraya Trivargaya Tridhamne Ca Trisuline || 61 ||
Trikalajñanarupaya Tridehaya Tridhatmane |
Namastrimurtividyaya Tritattvajñanine Namag || 62 ||
Akṣobhyayaniruddhaya Aprameyaya Bhanave |
Amrtaya Anantaya Amitayamitaujase || 63 ||
Apamrtyuvinasaya Apasmaravighatine |
Annadayannarupaya Annayannabhuje Namag || 64 ||
Nadyaya Niravadyaya Vidyayadbhutakarmane |
Sadyojataya Saṅghaya Vaidyutaya Namo Namag || 65 ||
Adhvatitaya Sattvaya Vagatitaya Vagmine |
Vagisvaraya Gopaya Gohitaya Gavam Pate || 66 ||
Gandharvaya Gabhiraya Garjitayorjitaya Ca |
Parjanyaya Prabuddhaya Pradhanapuruṣaya Ca || 67 ||
Padmabhaya Sunabhaya Padmanabhaya Manine |
Padmanetraya Padmaya Padmayag Pataye Namag || 68 ||
Padmodaraya Putaya Padmakalpodbhavaya Ca |
Namo Hrtpadmavasaya Bhupadmoddharanaya Ca || 69 ||
Sabdabrahmasvarupaya Brahmarupadharaya Ca |
Brahmane Brahmarupaya Padmanetraya Te Namag || 70 ||
Brahmadaya Brahmanaya Brahmabrahmatmane Namag |
Subrahmanyaya Devaya Brahmanyaya Trivedine || 71 ||
Parabrahmasvarupaya Pañcabrahmatmane Namag |
Namaste Brahmasirase Tathasvasirase Namag || 72 ||
Atharvasirase Nityamasanipramitaya Ca |
Namaste Tikṣnadamṣtraya Lolaya Lalitaya Ca || 73 ||
Lavanyaya Lavitraya Namaste Bhasakaya Ca |
Lakṣanajñaya Lakṣaya Lakṣanaya Namo Namag || 74 ||
Lasaddiptaya Liptaya Viṣnave Prabhaviṣnave |
Vrṣnimulaya Krṣnaya Srimahaviṣnave Namag || 75 ||
Pasyami Tvam Mahasimham Harinam Vanamalinam |
Kiritinam Kundalinam Sarvaṅgam Sarvatomukham || 76 ||
Sarvatag Panipadorag Sarvatokṣisiromukham |
Sarvesvaram Sadatuṣtam Samartham Samarapriyam || 77 ||
Bahuyojanavistirnam Bahuyojanamayatam |
Bahuyojanahastaṅghrim Bahuyojananasikam || 78 ||
Maharupam Mahavaktram Mahadamṣtram Mahabhujam |
Mahanadam Maharaudram Mahakayam Mahabalam || 79 ||
Anabherbrahmano Rupamagaladvaiṣnavam Tatha |
Asirṣadrudramisanam Tadagre Sarvatag Sivam || 80 ||
Namostu Narayananarasimha
Namostu Narayanavirasimha |
Namostu Narayanakrurasimha
Namostu Narayanadivyasimha || 81 ||
Namostu Narayanavyaghrasimha
Namostu Narayanapucchasimha |
Namostu Narayanapurnasimha
Namostu Narayanaraudrasimha || 82 ||
Namo Namo Bhiṣanabhadrasimha
Namo Namo Vihvalanetrasimha |
Namo Namo Brmhitabhutasimha
Namo Namo Nirmalacitrasimha || 83 ||
Namo Namo Nirjitakalasimha
Namo Namag Kalpitakalpasimha |
Namo Namo Kamadakamasimha
Namo Namaste Bhuvanaikasimha || 84 ||
Dyavaprthivyoridamantaram Hi
Vyaptam Tvayaikena Disasca Sarvag |
Drṣtvadbhutam Rupamugram Tavedam
Lokatrayam Pravyathitam Mahatman || 85 ||
Ami Hitva Surasaṅgha Visanti
Kecidbhitag Prañjalayo Grnanti |
Svastityuktva Munayag Siddhasaṅghag
Stuvanti Tvam Stutibhig Puṣkalabhig || 86 ||
Rudradityavasavo Ye Ca Sadhya
Visvedeva Marutascoṣmapasca |
Gandharvayakṣasurasiddhasaṅgha
Vikṣanti Tvam Vismitascaiva Sarve || 87 ||
Lelihyase Grasamanag Samanta-
-llokan Samagranvadanairjvaladbhig |
Tejobhirapurya Jagatsamagram
Bhasastavograg Pratapanti Viṣno || 88 ||
Bhaviṣnustvam Sahiṣnustvam Bhrajiṣnurjiṣnureva Ca |
Prthivimantarikṣam Tvam Parvataranyameva Ca || 89 ||
Kalakaṣthaviliptastvam Muhurtapraharadikam |
Ahoratram Trisandhya Ca Pakṣamasartuvatsarag || 90 ||
Yugadiryugabhedastvam Samyugo Yugasandhayag |
Nityam Naimittikam Dainam Mahapralayameva Ca || 91 ||
Karanam Karanam Karta Bharta Harta Tvamisvarag |
Satkarta Satkrtirgopta Saccidanandavigrahag || 92 ||
Pranastvam Praninam Pratyagatma Tvam Sarvadehinam |
Sujyotistvam Parañjyotiratmajyotig Sanatanag || 93 ||
Jyotirlokasvarupastvam Jño Jyotirjyotiṣam Patig | [jyotirjño]
Svahakarag Svadhakaro Vaṣatkarag Krpakarag || 94 ||
Hantakaro Nirakaro Vegakarasca Saṅkarag |
Akaradihakaranta Oṅkaro Lokakarakag || 95 ||
Ekatma Tvamanekatma Caturatma Caturbhujag |
Caturmurtiscaturdamṣtrascaturvedamayottamag || 96 ||
Lokapriyo Lokagururlokeso Lokanayakag |
Lokasakṣi Lokapatirlokatma Lokalocanag || 97 ||
Lokadharo Brhalloko Lokalokamayo Vibhug |
Lokakarta Visvakarta Krtavartag Krtagamag || 98 ||
Anadistvamanantastvamabhuto Bhutavigrahag |
Stutig Stutyag Stavapritag Stota Neta Niyamakag || 99 ||
Tvam Gatistvam Matirmahyam Pita Mata Gurug Sakha |
Suhrdascatmarupastvam Tvam Vina Nasti Me Gatig || 100 ||
Namaste Mantrarupaya Astrarupaya Te Namag |
Bahurupaya Rupaya Pañcarupadharaya Ca || 101 ||
Bhadrarupaya Rudhaya Yogarupaya Yogine |
Samarupaya Yogaya Yogapithasthitaya Ca || 102 ||
Yogagamyaya Saumyaya Dhyanagamyaya Dhyayine |
Dhyeyagamyaya Dhamne Ca Dhamadhipataye Namag || 103 ||
Dharadharaya Dharmaya Dharanabhirataya Ca |
Namo Dhatre Ca Sandhatre Vidhatre Ca Dharaya Ca || 104 ||
Damodaraya Dantaya Danavantakaraya Ca |
Namag Samsaravaidyaya Bheṣajaya Namo Namag || 105 ||
Siradhvajaya Sitaya Vatayapramitaya Ca |
Sarasvataya Samsaranasanayakṣamaline || 106 ||
Asicarmadharayaiva Ṣatkarmanirataya Ca |
Vikarmaya Sukarmaya Parakarmavidhayine || 107 ||
Susarmane Manmathaya Namo Varmaya Varmine |
Karicarmavasanaya Karalavadanaya Ca || 108 ||
Kavaye Padmagarbhaya Bhutagarbha Ghrnanidhe |
Brahmagarbhaya Garbhaya Brhadgarbhaya Dhurjate || 109 ||
Namaste Visvagarbhaya Srigarbhaya Jitaraye |
Namo Hiranyagarbhaya Hiranyakavacaya Ca || 110 ||
Hiranyavarnadehaya Hiranyakṣavinasine |
Hiranyakasiporhantre Hiranyanayanaya Ca || 111 ||
Hiranyaretase Tubhyam Hiranyavadanaya Ca |
Namo Hiranyasrṅgaya Nigsrṅgaya Ca Srṅgine || 112 ||
Bhairavaya Sukesaya Bhiṣanayantramaline |
Candaya Rundamalaya Namo Dandadharaya Ca || 113 ||
Akhandatattvarupaya Kamandaludharaya Ca |
Namaste Khandasimhaya Satyasimhaya Te Namag || 114 ||
Namaste Svetasimhaya Pitasimhaya Te Namag |
Nilasimhaya Nilaya Raktasimhaya Te Namag || 115 ||
Namo Haridrasimhaya Dhumrasimhaya Te Namag |
Mulasimhaya Mulaya Brhatsimhaya Te Namag || 116 ||
Patalasthitasimhaya Namag Parvatavasine |
Namo Jalasthasimhaya Antarikṣasthitaya Ca || 117 ||
Kalagnirudrasimhaya Candasimhaya Te Namag |
Anantasimhasimhaya Anantagataye Namag || 118 ||
Namo Vicitrasimhaya Bahusimhasvarupine |
Abhayaṅkarasimhaya Narasimhaya Te Namag || 119 ||
Namostu Simharajaya Narasimhaya Te Namag |
Saptabdhimekhalayaiva Satyasatyasvarupine || 120 ||
Saptalokantarasthaya Saptasvaramayaya Ca |
Saptarcirupadamṣtraya Saptasvaratharupine || 121 ||
Saptavayusvarupaya Saptacchandomayaya Ca |
Svacchaya Svaccharupaya Svacchandaya Ca Te Namag || 122 ||
Srivatsaya Suveṣaya Srutaye Srutimurtaye |
Sucisravaya Suraya Suprabhaya Sudhanvine || 123 ||
Subhraya Suranathaya Suprabhaya Subhaya Ca |
Sudarsanaya Sukṣmaya Niruktaya Namo Namag || 124 ||
Suprabhaya Svabhavaya Bhavaya Vibhavaya Ca |
Susakhaya Visakhaya Sumukhaya Mukhaya Ca || 125 ||
Sunakhaya Sudamṣtraya Surathaya Sudhaya Ca |
Saṅkhyaya Suramukhyaya Prakhyataya Prabhaya Ca || 126 ||
Namag Khatvaṅgahastaya Khetamudgarapanaye |
Khagendraya Mrgendraya Nagendraya Drdhaya Ca || 127 ||
Nagakeyuraharaya Nagendrayaghamardine |
Nadivasaya Nagnaya Nanarupadharaya Ca || 128 ||
Nagesvaraya Nagaya Namitaya Naraya Ca |
Nagantakarathayaiva Naranarayanaya Ca || 129 ||
Namo Matsyasvarupaya Kacchapaya Namo Namag |
Namo Yajñavarahaya Narasimhaya Te Namag || 130 ||
Vikramakrantalokaya Vamanaya Mahaujase |
Namo Bhargavaramaya Ravanantakaraya Ca || 131 ||
Namaste Balaramaya Kamsapradhvamsakarine |
Buddhaya Buddharupaya Tikṣnarupaya Kalkine || 132 ||
Atreyayagninetraya Kapilaya Dvijaya Ca |
Kṣetraya Pasupalaya Pasuvaktraya Te Namag || 133 ||
Grhasthaya Vanasthaya Yataye Brahmacarine |
Svargapavargadatre Ca Tadbhoktre Ca Mumukṣave || 134 ||
Salagramanivasaya Kṣirabdhisayanaya Ca |
Srisailadrinivasaya Silavasaya Te Namag || 135 ||
Yogihrtpadmavasaya Mahahasaya Te Namag |
Guhavasaya Guhyaya Guptaya Gurave Namag || 136 ||
Namo Muladhivasaya Nilavastradharaya Ca |
Pitavastraya Sastraya Raktavastradharaya Ca || 137 ||
Raktamalavibhuṣaya Raktagandhanulepine |
Dhurandharaya Dhurtaya Durdharaya Dharaya Ca || 138 ||
Durmadaya Durantaya Durdharaya Namo Namag |
Durnirikṣyaya Niṣthaya Durdarsaya Drumaya Ca || 139 ||
Durbhedaya Durasaya Durlabhaya Namo Namag |
Drptaya Drptavaktraya Adrptanayanaya Ca || 140 ||
Unmattaya Pramattaya Namo Daityaraye Namag |
Rasajñaya Rasesaya Araktarasanaya Ca || 141 ||
Pathyaya Paritoṣaya Rathyaya Rasikaya Ca |
Urdhvakesordhvarupaya Namaste Cordhvaretase || 142 ||
Urdhvasimhaya Simhaya Namaste Cordhvabahave |
Parapradhvamsakayaiva Saṅkhacakradharaya Ca || 143 ||
Gadapadmadharayaiva Pañcabanadharaya Ca |
Kamesvaraya Kamaya Kamapalaya Kamine || 144 ||
Namag Kamaviharaya Kamarupadharaya Ca |
Somasuryagninetraya Somapaya Namo Namag || 145 ||
Namag Somaya Vamaya Vamadevaya Te Namag |
Samasvanaya Saumyaya Bhaktigamyaya Vai Namag || 146 ||
Kuṣmandagananathaya Sarvasreyaskaraya Ca |
Bhiṣmaya Bhiṣadayaiva Bhimavikramanaya Ca || 147 ||
Mrgagrivaya Jivaya Jitayajitakarine |
Jatine Jamadagnyaya Namaste Jatavedase || 148 ||
Japakusumavarnaya Japyaya Japitaya Ca |
Jarayujayandajaya Svedajayodbhijaya Ca || 149 ||
Janardanaya Ramaya Jahnavijanakaya Ca |
Jarajanmadiduraya Pradyumnaya Pramodine || 150 ||
Jihvaraudraya Rudraya Virabhadraya Te Namag |
Cidrupaya Samudraya Kadrudraya Pracetase || 151 ||
Indriyayendriyajñaya Namostvindranujaya Ca |
Atindriyaya Saraya Indirapataye Namag || 152 ||
Isanaya Ca Idyaya Isitaya Inaya Ca |
Vyomatmane Ca Vyomne Ca Namaste Vyomakesine || 153 ||
Vyomadharaya Ca Vyomavaktrayasuraghatine |
Namaste Vyomadamṣtraya Vyomavasaya Te Namag || 154 ||
Sukumaraya Ramaya Subhacaraya Vai Namag |
Visvaya Visvarupaya Namo Visvatmakaya Ca || 155 ||
Jñanatmakaya Jñanaya Visvesaya Paratmane |
Ekatmane Namastubhyam Namaste Dvadasatmane || 156 ||
Caturvimsatirupaya Pañcavimsatimurtaye |
Ṣadvimsakatmane Nityam Saptavimsatikatmane || 157 ||
Dharmarthakamamokṣaya Viraktaya Namo Namag |
Bhavasuddhaya Siddhaya Sadhyaya Sarabhaya Ca || 158 ||
Prabodhaya Subodhaya Namo Buddhipriyaya Ca |
Snigdhaya Ca Vidagdhaya Mugdhaya Munaye Namag || 159 ||
Priyamvadaya Sravyaya Sruksruvaya Sritaya Ca |
Grhesaya Mahesaya Brahmesaya Namo Namag || 160 ||
Sridharaya Sutirthaya Hayagrivaya Te Namag |
Ugraya Ugravegaya Ugrakarmarataya Ca || 161 ||
Ugranetraya Vyagraya Samagragunasaline |
Balagrahavinasaya Pisacagrahaghatine || 162 ||
Duṣtagrahanihantre Ca Nigrahanugrahaya Ca |
Vrṣadhvajaya Vrṣnyaya Vrṣaya Vrṣabhaya Ca || 163 ||
Ugrasravaya Santaya Namag Srutidharaya Ca |
Namaste Devadevesa Namaste Madhusudana || 164 ||
Namaste Pundarikakṣa Namaste Duritakṣaya |
Namaste Karunasindho Namaste Samitiñjaya || 165 ||
Namaste Narasimhaya Namaste Garudadhvaja |
Yajñanetra Namastestu Kaladhvaja Jayadhvaja || 166 ||
Agninetra Namastestu Namaste Hyamarapriya |
Mahanetra Namastestu Namaste Bhaktavatsala || 167 ||
Dharmanetra Namastestu Namaste Karunakara |
Punyanetra Namastestu Namastebhiṣtadayaka || 168 ||
Namo Namaste Jayasimharupa
Namo Namaste Narasimharupa |
Namo Namaste Ranasimharupa
Namo Namaste Narasimharupa || 169 ||
Uddhrtya Garvitam Daityam Nihatyajau Suradviṣam |
Devakaryam Mahatkrtva Garjase Svatmatejasa || 170 ||
Atiraudramidam Rupam Dussaham Duratikramam |
Drṣtva Tu Saṅkitag Sarva Devatastvamupagatag || 171 ||
Etanpasya Mahesanam Brahmanam Mam Sacipatim |
Dikpalan Dvadasadityan Rudranuragarakṣasan || 172 ||
Sarvan Rṣiganan Saptamatrrgaurim Sarasvatim |
Lakṣmim Nadisca Tirthani Ratim Bhutagananyapi || 173 ||
Prasida Tvam Mahasimha Ugrabhavamimam Tyaja |
Prakrtistho Bhava Tvam Hi Santibhavam Ca Dharaya || 174 ||
Ityuktva Dandavadbhumau Papata Sa Pitamahag |
Prasida Tvam Prasida Tvam Prasideti Punag Punag || 175 ||
Markandeya Uvaca |
Drṣtva Tu Devatag Sarvag Srutva Tam Brahmano Giram |
Stotrenapi Ca Samhrṣtag Saumyabhavamadharayat || 176 ||
Abravinnarasimhastu Vikṣya Sarvan Surottaman |
Santrastan Bhayasamvignan Saranam Samupagatan || 177 ||
Srinrsimha Uvaca |
Bho Bho Devavarag Sarve Pitamahapurogamag |
Srnudhvam Mama Vakyam Ca Bhavantu Vigatajvarag || 178 ||
Yaddhitam Bhavatam Nunam Tatkariṣyami Sampratam |
Evam Namasahasram Me Trisandhyam Yag Pathet Sucig || 179 ||
Srnoti Va Sravayati Pujante Bhaktisamyutag |
Sarvan Kamanavapnoti Jivecca Saradam Satam || 180 ||
Yo Namabhirnrsimhadyairarcayetkramaso Mama |
Sarvatirtheṣu Yatpunyam Sarvatirtheṣu Yatphalam || 181 ||
Sarvapujasu Yatproktam Tatsarvam Labhate Bhrsam |
Jatismaratvam Labhate Brahmajñanam Sanatanam || 182 ||
Sarvapapavinirmuktag Tadviṣnog Paramam Padam |
Mannamakavacam Badhva Vicaredvigatajvarag || 183 ||
Bhutabhetalakuṣmanda Pisacabrahmarakṣasag |
Sakinidakinijyeṣtha Nili Balagrahadikag || 184 ||
Duṣtagrahasca Nasyanti Yakṣarakṣasapannagag |
Ye Ca Sandhyagrahag Sarve Candalagrahasañjñikag || 185 ||
Nisacaragrahag Sarve Pranasyanti Ca Duratag |
Kukṣirogam Ca Hrdrogam Sulapasmarameva Ca || 186 ||
Aikahikam Dvyahikam Ca Caturthikamatha Jvaram |
Adhayo Vyadhayag Sarve Roga Rogadhidevatag || 187 ||
Sighram Nasyanti Te Sarve Nrsimhasmaranat Surag |
Rajano Dasatam Yanti Satravo Yanti Mitratam || 188 ||
Jalani Sthalatam Yanti Vahnayo Yanti Sitatam |
Viṣanyapyamrta Yanti Nrsimhasmaranatsurag || 189 ||
Rajyakamo Labhedrajyam Dhanakamo Labheddhanam |
Vidyakamo Labhedvidyam Baddho Mucyeta Bandhanat || 190 ||
Vyalavyaghrabhayam Nasti Corasarpadikam Tatha |
Anukula Bhavedbharya Lokaisca Pratipujyate || 191 ||
Suputram Dhanadhanyam Ca Bhavanti Vigatajvarag |
Etatsarvam Samapnoti Nrsimhasya Prasadatag || 192 ||
Jalasantarane Caiva Parvataranyameva Ca |
Vanepi Viciranmartyo Durgame Viṣame Pathi || 193 ||
Bilapravesane Capi Narasimham Na Vismaret |
Brahmaghnasca Pasughnasca Bhrunaha Gurutalpagag || 194 ||
Mucyate Sarvapapebhyag Krtaghnag Strivighatakag |
Vedanam Duṣakascapi Matapitrvinindakag || 195 ||
Asatyastu Tetha Yajñanindako Lokanindakag |
Smrtva Sakrnnrsimham Tu Mucyate Sarvakilbiṣaig || 196 ||
Bahunatra Kimuktena Smrtva Mam Suddhamanasag |
Yatra Yatra Carenmartyo Nrsimhastatra Rakṣati || 197 ||
Gacchan Tiṣthan Svapan Bhuñjan Jagrannapi Hasannapi |
Nrsimheti Nrsimheti Nrsimheti Sada Smaran || 198 ||
Pumanna Lipyate Papairbhuktim Muktim Ca Vindati |
Nari Subhagatameti Saubhagyam Ca Svarupatam || 199 ||
Bhartug Priyatvam Labhate Na Vaidhavyam Ca Vindati |
Na Sapatnim Ca Janmante Samyak Jñani Bhavedvijag || 200 ||
Bhumipradakṣinanmartyo Yatphalam Labhate Cirat |
Tatphalam Labhate Narasimhamurtipradakṣinat || 201 ||
Markandeya Uvaca |
Ityuktva Devadeveso Lakṣmimaliṅgya Lilaya |
Prahladasyabhiṣekam Tu Brahmane Copadiṣtavan || 202 ||
Srisailasya Prasade Tu Lokanam Ca Hitaya Vai |
Svarupam Sthapayamasa Prakrtisthobhavattada || 203 ||
Brahmapi Daityarajanam Prahladamabhyaṣecayat |
Daivataig Saha Suprito Hyatmalokam Yayau Svayam || 204 ||
Hiranyakasiporbhitya Prapalayya Sacipatig |
Svargarajyaparibhraṣto Yuganamekavimsatim || 205 ||
Nrsimhena Hate Daitye Svargalokamavapa Sag |
Dikpalasca Susampraptag Svasvasthanamanuttamam || 206 ||
Dharme Matig Samastanam Prajanamabhavattada |
Evam Namasahasram Me Brahmana Nirmitam Pura || 207 ||
Putranadhyapayamasa Sanakadinmahamatig |
Ucuste Ca Tatag Sarvalokanam Hitakamyaya || 208 ||
Devata Rṣayag Siddha Yakṣavidyadharoragag |
Gandharvasca Manuṣyasca Ihamutraphalaiṣinag || 209 ||
Yasya Stotrasya Pathaddhi Visuddhamanasobhavan |
Sanatkumarag Samprapto Bharadvajo Mahamatig || 210 ||
Tasmadaṅgirasag Praptastasmatprapto Mahakratug |
Jagraha Bhargavastasmadagnimitraya Sobravit || 211|
Jaigiṣavyaya Sa Praha Sobraviccyavanaya Ca |
Tasma Uvaca Sandilyo Gargaya Praha Vai Munig || 212 ||
Kratuñjayaya Sa Praha Jatukarnyaya Samyami |
Viṣnuvrddhaya Sopyaha Sopi Bodhayanaya Ca || 213 ||
Kramatsa Viṣnave Praha Sa Prahoddhamakukṣaye |
Simhatejasca Tasmacca Sripriyaya Dadau Ca Nag || 214 || [sag]
Upadiṣtosmi Tenahamidam Namasahasrakam |
Tatprasadadamrtyurme Yasmatkasmadbhayam Na Hi || 215 ||
Maya Ca Kathitam Narasimhastotramidam Tava |
Tvam Hi Nityam Sucirbhutva Tamaradhaya Sasvatam || 216 ||
Sarvabhutasrayam Devam Nrsimham Bhaktavatsalam |
Pujayitva Stavam Japtva Hutva Niscalamanasag || 217 ||
Prapyase Mahatim Siddhim Sarvan Kamanvarottaman |
Ayameva Parodharmastvidameva Param Tapag || 218 ||
Idameva Param Jñanamidameva Mahadvratam |
Ayameva Sadacarastvayameva Sada Makhag || 219 ||
Idameva Trayo Vedag Sacchastranyagamani Ca |
Nrsimhamantradanyacca Vaidikam Tu Na Vidyate || 220 ||
Yadihasti Tadanyatra Yannehasti Na Tatkvacit |
Kathitam Te Nrsimhasya Caritam Papanasanam || 221 ||
Sarvamantramayam Tapatrayopasamanam Param |
Sarvarthasadhanam Divyam Kim Bhuyag Srotumicchasi || 222 ||
Iti Srinrsimhapurane Nrsimhapradurbhave Srimaddivya Lakṣminrsimha Sahasranama Stotram ||