Sri Pratyangira Sahasranama Stotram

25
Pratyangira Devi Sahasranamam

Goddess Pratyangira Devi is a very powerful deity and should be worshipped with love, devotion and appropriate positive posture to get protection for oneself from negative forces. She is the One that calmed Sri Narasimha after He had destroyed the demon Hiranyakashipu to save Prahlada. The Sahasranama Stotram that is being shared here is the thousand name hymn for Pratyangira Devi. This is a powerful hymn and includes the “phala sruthi” at the end. This is a beautiful hymn and hope the listener can eventually be able to recite by themselves and enjoy the bliss offered. This is a long hymn.

Sri Pratyangira Sahasranama Stotram | श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम्

श्रीरुद्रयामलतन्त्रे दशविद्यारहस्ये

ईश्वर उवाच ।
श‍ृणु देवि प्रवक्ष्यामि साम्प्रतं त्वत्पुरःसरम् ।
सहस्रनाम परमं प्रत्यङ्गिरायाः सिद्धये ॥

सहस्रनामपाठे यः सर्वत्र विजयी भवेत् ।
पराभवो न चास्यास्ति सभायां वासने रणे ॥

तथा तुष्टा भवेद्देवी प्रत्यङ्गिरास्य पाठतः ।
यथा भवति देवेशि साधकः शिव एव हि ॥

अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना यत्परा भवेत् ॥

भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप् देवि समीरिता ।
प्रत्यङ्गिरा विनियोगः स्यात्सर्वसम्पत्ति हेतवे ॥

सर्वकार्येषु संसिद्धिः सर्वसम्पत्तिदा भवेत् ।
एवं ध्यात्वा पठेद्देवीं यदीछेदात्मनो हितम् ॥

अथ ध्यानम् ।
आशाम्बरा मुक्तकचा घनच्छविर्ध्येया सचर्मासिकरा विभूषणा ।
दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्करतेजसेरिता ॥

ॐ अस्य श्रीप्रत्यङ्गिरासहस्रनाममहामन्त्रस्य,
भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीप्रत्यङ्गिरा देवता,
ह्रीं बीजं, श्रीं शक्तिः, स्वाहा कीलकं
मम सर्वकार्यसिद्धयर्थे विद्यासिद्ध्यर्थे नामपारायणे विनियोगः ।
ॐ देवी प्रत्यङ्गिरा सेव्या शिरसा शशिशेखरा ।
समाऽसमा धर्मिणी च समस्तसुरशेमुषी ॥ १॥

सर्वसम्पत्तिजननी समदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सोमाराध्या च वसुधा रसा ॥ २॥

रसा रसवती वेला वन्या च वनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ ३॥

वेगिनी वेगदा वेगबला स्थानबलाधिका ।
कला कलाप्रिया कौलि कोमला कालकामिनी ॥ ४॥

कमला कमलास्या च कमलस्था कलावती ।
कुलीना कुटिला कान्ता कोकिला कुलभाषिणी ॥ ५॥

कीरकेलिः कला काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशाम्बी केशवप्रिया ॥ ६॥

काशी काशापहा कांशीसङ्काशा केशदायिनी ।
कुण्डली कुण्डलीस्था च कुण्डलाङ्गदमण्डिता ॥ ७॥

कुशापाशी कुमुदिनी कुमुदप्रीतिवर्धिनी ।
कुन्दप्रिया कुन्दरुचिः कुरङ्गमदमोदिनी ॥ ८॥

कुरङ्गनयना कुन्दा कुरुवृन्दाभिनन्दिनी ।
कुसुम्भकुसुमा किञ्चित्क्वणत्किङ्किणिका कटुः ॥ ९॥

कठोरा करणा कण्ठा कौमुदी कम्बुकण्ठिनी ।
कपर्दिनी कपटिनी कठिनी कालकण्ठिका ॥ १०॥

किब्रुहस्ता कुमारी च कुरुन्दा कुसुमप्रिया ।
कुञ्जरस्था कुञ्जरता कुम्भिकुम्भस्तनद्वया ॥ ११॥

कुम्भिका करभोरुश्च कदलीदलशालिनी ।
कुपिता कोटरस्था च कङ्काली कन्दशेखरा ॥ १२॥

एकान्तवासिनी किञ्चित्कम्पमानशिरोरुहा ।
कादम्बरी कदम्बस्था कुङ्कुमी प्रेमधारिणी ॥ १३॥

कुटुम्बिनी प्रियायुक्ता क्रतुः क्रतुकरी क्रिया ।
कात्यायनी कृत्तिका च कार्तिकेयप्रवर्तिनी ॥ १४॥

कामपत्नी कामधात्री कामेशी कामवन्दिता ।
कामरूपा कामगतिः कामाक्षी काममोहिता ॥ १५॥

खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खला ।
खरगा खरनासा च खरास्या खेलनप्रिया ॥ १६॥

खरांशुः खेटिनी खरखट्वाङ्गधारिणी ।
खलखण्डिनि विख्यातिः खण्डिता खण्डवी स्थिरा ॥ १७॥

खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खञ्जनी ।
गङ्गा गोदावरी गौरी गोमत्यापि च गौतमी ॥ १८॥

गया गौर्गजी गगना गारुडी गरुडध्वजा ।
गीता गीतप्रिया गोत्रा गोत्रक्षयकरी गदा ॥ १९॥

गिरिभूपालदुहिता गोगा गोकुलवर्धिनी ।
घनस्तनी घनरुचिर्घनोरुर्घननिःस्वना ॥ २०॥

घूत्कारिणी घूतकरी घुघूकपरिवारिता ।
घण्टानादप्रिया घण्टा घनाघोटप्रवाहिनी ॥ २१॥

घोररूपा च घोरा च घूनीप्रीति घनाञ्जनी ।
घृताची घनमुष्टिश्च घटाघण्टा घटामृता ॥ २२॥

घटास्या घटानादा च घातपातनिवारिणी ।
चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ॥ २३॥

चातुरी चपला चारुश्चला चेला चलाचला ।
चतुश्चिरन्तना चाका चिया चामीकरच्छविः ॥ २४॥

चापिनी चपला चम्पूश्चित्तचिन्तामणिश्चिता ।
चातुर्वर्ण्यमयी चञ्चच्चौरा चापा चमत्कृतिः ॥ २५॥

चक्रवर्ति वधूश्चक्रा चक्राङ्गा चक्रमोदिनी ।
चेतश्चरी चित्तवृत्तिरचेता चेतनाप्रदा ॥ २६॥

चाम्पेयी चम्पकप्रीतिश्चण्डी चण्डालवासिनी । (चप्रिया चक्रिका)
चिरञ्जीवितदाचित्ता तरुमूलनिवासिनी ॥ २७॥

छुरिका छत्रमध्यस्था छिद्रा छेदकरी छिदा ।
छुच्छुन्दरीपलप्रीतिः छुन्दरीभनिभस्वना ॥ २८॥

छलिनी छलवच्छिन्ना छिटिका छेककृत्तथा ।
छद्मिनी छान्दसी छाया छायाकृच्छादिरित्यपि ॥ २९॥

जया च जयदा जातिर्जृम्भिणी जामलायुता ।
जयापुष्पप्रिया जाया जाप्या जाप्यजगज्जनिः ॥ ३०॥

जम्बूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया ।
जन्तुर्जन्तुप्रधाना च जरत्कर्णा जरद्गवा ॥ ३१॥

जातीप्रिया जीवनस्था जीमूतसदृशच्छविः ।
जन्या जनहिता जाया जम्भजम्भिलशालिनी ॥ ३२॥

जवदा जववद्वाहा जमानी ज्वरहा ज्वरी ।
झञ्झा नीलमयी झञ्झाझणत्कारकराचला ॥ ३३॥

झिंटीशा झस्यकृत् झम्पा यमत्रासनिवारिणी ।
टङ्कारस्था टङ्कधरा टङ्कारकारणा टसी ॥ ३४॥ var टकारस्था
ठकुरा ठीकृतिश्चैव ठिण्ठीरवसनावृता ।
ठण्ठा नीलमयी ठण्ठा ठणत्कारकरा ठसा ॥ ३५॥

डाकिनी डामरा चैव डिण्डिमध्वनिनादिनी ।
ढक्काप्रियस्वना ढक्कातपिनी तापिनी तथा ॥ ३६॥

तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया ।
ताम्रा ताम्राम्बरा ताली तालीदलविभूषणा ॥ ३७॥

तुरङ्गा त्वरिता तोता तोतला तादिनी तुला ।
तापत्रयहरा तारा तालकेशी तमालिनी ॥ ३८॥

तमालदलवच्छाया तालस्वनवती तमी ।
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ॥ ३९॥

तटस्थातिलतैलाक्ता तारिणी तपनद्युतिः ।
तिलोत्तमा तिलककृत्तारकाधीशशेखरा ॥ ४०॥

तिलपुष्पप्रिया तारा तारकेशकुटुम्बिनी ।
स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ॥ ४१॥

स्थितिस्थैर्या स्थविष्ठा च स्थावतिः स्थूलविग्रहा ।
दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ॥ ४२॥

देवी देववधूर्दैत्यदमिनी दन्तभूषणा ।
दयावती दमवती दमदा दाडिमस्तनी ॥ ४३॥

दन्दशूकनिभा दैत्यदारिणी देवताऽऽनना ।
दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ ४४॥

दशा दीपस्थिता दोषा दोषहा दोषकारिणी ।
दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ॥ ४५॥

दुर्गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी ।
दुर्वारा दुन्दुभिध्वाना दूरगा दूरवासिनी ॥ ४६॥

दरदा दरहा दात्री दयादा दुहिता दशा ।
धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ ४७॥

धीरा धीराधरित्री च धर्मदा धीरमानसा ।
धनुर्धरा च धमिनी धूर्ता धूर्तपरिग्रहा ॥ ४८॥

धूमवर्णा धूमपाना धूमला धूममोदिनी ।
नलिनी नन्दनी नन्दा नन्दिनी नन्दबालिका ॥ ४९॥

नवीना नर्मदा नर्मी नेमिर्नियमनिश्चया ।
निर्मला निगमाचरा निम्नगा नग्निका निमिः ॥ ५०॥

नाला निरन्तरा निघ्नी निर्लेपा निर्गुणा नतिः ।
नीलग्रीवा निरीहा च निरञ्जनजनी नवी ॥ ५१॥

नवनीतप्रिया नारी नरकार्णवतारिणी ।
नारायणी निराकारा निपुणा निपुणप्रिया ॥ ५२॥

निशा निद्रा नरेन्द्रस्था नमिता नमितापि च ।
निर्गुण्डिका च निर्गुण्डा निर्मांसा नासिकाभिधा ॥ ५३॥

पताकिनी पताका च पलप्रीतिर्यशश्विनी ।
पीना पीनस्तना पत्नी पवनाशनशायिनी ॥ ५४॥

परा पराकला पाका पाककृत्यरतिप्रिया ।
पवनस्था सुपवना तापसी प्रीतिवर्धिनी ॥ ५५॥

पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्धिनी ।
पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ॥ ५६॥

पुरन्दरप्रिया प्रीतिः पुरमार्गनिवासिनी ।
पेशा पाशकरा पाशबन्धहा पांशुलापशुः ॥ ५७॥

पटः पटाशा परशुधारिणी पाशिनी तथा ।
पापघ्नी पतिपत्नी च पतिताऽपतितापि च ॥ ५८॥

पिशाची च पिशाचघ्नी पिशिताशनतोषिता ।
पानदा पानपात्रा च पानदानकरोद्यता ॥ ५९॥

पेषा प्रसिद्धिः पीयूषा पूर्णा पूर्णमनोरथा ।
पतद्गर्भा पतद्गात्रा पौनःपुण्यपिवापुरा ॥ ६०॥

पङ्किला पङ्कमग्ना च पामीपा पञ्जरस्थिता ।
पञ्चमा पञ्चयामा च पञ्चता पञ्चमप्रिया ॥ ६१॥

पञ्चमुद्रा पुण्डरीका पिङ्गला पिङ्गलोचना ।
प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ ६२॥

प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा ।
फलिनी फलदात्री च फलश्री फणिभूषणा ॥ ६३॥

फूत्कारकारिणी स्फारा फुल्ला फुल्लाम्बुजासना ।
फिरङ्गहा स्फीतमतिः स्फितिः स्फीतिकरी तथा ॥ ६४॥

वनमाया बलारातिर्बलिनी बलवर्धिनी ।
वेणुवाद्या वनचरी वीरा बीजमयी अपि ॥ ६५॥

विद्या विद्याप्रदा विद्याबोधिनी वेददायिनी ।
बुधमाता च बुद्धा च वनमालावती वरा ॥ ६६॥

वरदा वारुणी वीणा वीणावादनतत्परा ।
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ ६७॥

विद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ।
वितन्द्रा विह्वला वेला विरावा विरतिर्वरा ॥ ६८॥

विविधार्ककरा वीरा बिम्बोष्ठी बिम्बवत्सला ।
विन्ध्यस्था वीरवन्द्या च वरीयानपराचवित् ॥ ६९॥

वेदान्तवेद्या वैद्या च वेदस्य विजयप्रदा ।
विरोधवर्धिनी वन्ध्या वन्ध्याबन्धनिवारिणी ॥ ७०॥

भगिनी भगमाला च भवानी भयभाविनी ।
भीमा भीमानना भैमी भङ्गुरा भीमदर्शना ॥ ७१॥

भिल्ली भल्लधरा भीरुर्भेरुण्डी भीर्भयापहा ।
भगसर्पिण्यपि भगा भगरूपा भगालया ॥ ७२॥

भगासना भगामोदा भेरी भङ्काररञ्जिता ।
भीषणा भीषणारावा भगवत्यपि भूषणा ॥ ७३॥

भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा ।
भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ ७४॥

भ्रमरी भ्रामरी नीला भूपालमुकुटस्थिता ।
मत्ता मनोहरमना मानिनी मोहनी मही ॥ ७५॥ var भामिनी
महालक्ष्मीर्मदक्षीबा मदीय मदिरालया ।
मदोद्धता मतङ्गस्था माधवी मधुमादिनी ॥ ७६॥

मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता ।
मद्यपा मांसला मत्स्यमोदिनी मैथुनोद्धता ॥ ७७॥

मुद्रा मुद्रावती माता माया महिम मन्दिरा ।
महामाया महाविद्या महामारी महेश्वरी ॥ ७८॥

महादेववधूर्मान्या मधुरा वीरमण्डला ।
मेदस्विनी मीलदश्रीर्महिषासुरमर्दिनी ॥ ७९॥

मण्डपस्था मठस्था च मदिरागमगर्विता ।
मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ ८०॥

मातङ्गिनी च मातङ्गी मतङ्गतनयापि च ।
मधुस्रवा मधुरसा मधूककुसुमप्रिया ॥ ८१॥

यामिनी यामिनीनाथभूषा यावकरञ्जिता ।
यवाङ्कुरप्रिया माया यवनी यवनाधिपा ॥ ८२॥

यमघ्नी यमकन्या च यजमानस्वरूपिणी ।
यज्ञा यज्वा यजुर्यज्वा यशोनिकरकारिणी ॥ ८३॥

यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी तथा ।
यशस्विनी यकारस्था यूपस्तम्भनिवासिनी ॥ ८४॥

रञ्जिता राजपत्नी च रमा रेखा रवेरणी ।
रजोवती रजश्चित्रा रजनी रजनीपतिः ॥ ८५॥

रागिणी राज्यनीराज्या राज्यदा राज्यवर्धिनी ।
राजन्वती राजनीतिस्तथा रजतवासिनी ॥ ८६॥

रमणी रमणीया च रामा रामावती रतिः ।
रेतोवती रतोत्साहा रोगहृद्रोगकारिणी ॥ ८७॥

रङ्गा रङ्गवती रागा रागज्ञा रागकृद्रणा ।
रञ्जिका रञ्जिकारञ्जा रञ्जिनी रक्तलोचना ॥ ८८॥

रक्तचर्मधरा रञ्जा रक्तस्था रक्तवादिनी ।
रम्भा रम्भाफलप्रीति रम्भोरु राघवप्रिया ॥ ८९॥

रङ्गभृद्रङ्गमधुरा रोदसी रोदसीग्रहा ।
रोधकृद्रोधहन्त्री च रोगभृद्रोगशायिनी ॥ ९०॥

वन्दी वदिस्तुता बन्धा बन्धूककुसुमाधरा ।
वन्दीत्रा वन्दितामाता विन्दुरा वैन्दवीविधा ॥ ९१॥

विङ्कि विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला ।
वदिर्विलग्ना विप्रा च विधिर्विधिकरी विधा ॥ ९२॥

शङ्खिनी शङ्खवलया शङ्खमालावती शमी ।
शङ्खपात्राशिनी शङ्खाशङ्खा शङ्खगला शशी ॥ ९३॥

शंवी शरावती श्यामा श्यामाङ्गी श्यामलोचना ।
श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ॥ ९४॥

शमदा शमहन्त्री च शाकिनी शङ्कुशेखरा ।
शान्तिः शान्तिप्रदा शेषा शेषस्था शेषदायिनी ॥ ९५॥

शेमुषी शोषिणी शीरी शौरिः शौर्या शरा शिरिः ।
शापहा शापहानीशा शम्पा शपथदायिनी ॥ ९६॥

श‍ृङ्गिणी श‍ृङ्गपलभुक् शङ्करी शङ्करी च या ।
शङ्का शङ्कापहा संस्था शाश्वती शीतला शिवा ॥ ९७॥

शिवस्था शवभुक्ता च शववर्णा शिवोदरी ।
शायिनी शावशयना शिंशपा शिशुपालिनी ॥ ९८॥

शवकुण्डलिनी शैवा शङ्करा शिशिरा शिरा ।
शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ॥ ९९॥

शयनी शङ्कुवा शक्तिः शन्तनुः शीलदायिनी ।
सिन्धुः सरस्वती सिन्धुसुन्दरी सुन्दरानना ॥ १००॥

साधुः सिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती ।
सन्ततिः सम्पदा सम्पत्संवित्सरतिदायिनी ॥ १०१॥

सपत्नी सरसा सारा सरस्वतिकरी स्वधा ।
सरःसमा समाना च समाराध्या समस्तदा ॥ १०२॥

समिद्धा समदा सम्मा सम्मोहा समदर्शना ।
समितिः समिधा सीमा सवित्री सविधा सती ॥ १०३॥

सवता सवनादारा सावना समरा समी ।
सिमिरा सतता साध्वी सघ्रीची च सहायिनी ॥ १०४॥

हंसी हंसगतिर्हंसा हंसोज्ज्वलनिचोलुयुक् ।
हलिनी हलदा हाला हरश्रीर्हरवल्लभा ॥ १०५॥

हेला हेलावती हेषा ह्रेषस्था ह्रेषवर्धिनी ।
हन्ता हन्तिर्हता हत्या हा हन्त तापहारिणी ॥ १०६॥

हङ्कारी हन्तकृद्धङ्का हीहा हाता हताहता ।
हेमप्रदा हंसवती हारी हातरिसम्मता ॥ १०७॥

होरी होत्री होलिका च होमा होमो हविर्हरिः ।
हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ॥ १०८॥

लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ।
लीला लोलावती लोला ललनी लालिता लता ॥ १०९॥ var लोका
ललामलोचना लोच्या लोलाक्षी लक्षणा लला ।
लम्पती लुम्पती लम्पा लोपामुद्रा ललन्तिनी ॥ ११०॥

लन्तिका लम्बिका लम्बा लघिमा लघुमध्यमा ।
लघीयसी लघुदयी लूता लूतानिवारिणी ॥ १११॥

लोमभृल्लोमलोप्ता च लुलुती लुलुसंयती ।
लुलायस्था च लहरी लङ्कापुरपुरन्दरी ॥ ११२॥

लक्ष्मीर्लक्ष्मीप्रदा लक्ष्म्या लक्षाबलमतिप्रदा ।
क्षुण्णा क्षुपा क्षणा क्षीणा क्षमा क्षान्तिः क्षणावती ॥ ११३॥

क्षामा क्षामोदरी क्षीमा क्षौमभृत्क्षत्रियाङ्गना ।
क्षया क्षयकरी क्षीरा क्षीरदा क्षीरसागरा ॥ ११४॥

क्षेमङ्करी क्षयकरी क्षयदा क्षणदा क्षतिः ।
क्षुरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामा क्षरपातका ॥ ११५॥

॥ फलश्रुतिः ॥

मातुः सहस्रनामेदं प्रत्यङ्गिर्या वरप्रदम् ॥ १॥

यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः ।
अनाचान्तः पठेन्नित्यं दरिद्रो धनदो भवेत् ॥ २॥

( var यः पठेत्प्रयतो नित्यं दरिद्रो धनदो भवेत्)
मूकः स्याद्वाक्पतिर्देवि रोगी निरोगतां व्रजेत् ।
अपुत्रः पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥ ३॥

वन्ध्यापि सूते तनयान् गावश्च बहुदुग्धदाः ।
राजानः पादनम्राः स्युस्तस्यदासा इव स्फुटाः ॥ ४॥

अरयः सङ्क्षयं यान्ति मनसा संस्मृता अपि ।
दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ॥ ५॥

कर्ता हर्ता स्वयंवीरो जायते नात्रसंशयः ।
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ ६॥

दुरितं न च तस्यास्ते नास्ति शोकाः कदाचन ।
चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ॥ ७॥

एकाकी निर्भयो धीरो दशावर्तं स्तवोत्तमम् ।
मनसा चिन्तितं कार्यं तस्य सिधिर्न संशयः ॥ ८॥

विना सहस्रनाम्ना यो जपेन्मन्त्रं कदाचन ।
न सिद्धो जायते तस्य मन्त्रः कल्पशतैरपि ॥ ९॥

कुजवारे श्मशाने च मध्याह्ने यो जपेदथ ।
शतावर्त्या सर्जयेत कर्ता हर्ता नृणामिह ॥ १०॥

रोगान्तर्धो निशायान्ते पठितामसि संस्थितः ।
सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ॥ ११॥

अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ।
अष्टोत्तरसहस्रं तद्दशवारं जपेत्ततः ॥ १२॥

सहस्रनाम चेत्तद्धि तदा याति स्वयं शिवा ।
महापवनरूपेण घोरगोमायुनादिनी ॥ १३॥

तदा यदि न भीतिः स्यात्ततो द्रोहीति वा भवेत् ।
तदा पशुबलिं दद्यात्स्वयं गृण्हाति चण्डिका ॥ १४॥

यथेष्टं च वरं दत्त्वा याति प्रत्यङ्गिरा शिवा ।
रोचनागुरुकस्तूरी कर्पूरमदचन्दनः ॥ १५॥

कुङ्कुमप्रथमाभ्यां तु लिखितं भूर्जपत्रके ।
शुभनक्षत्रयोगे तु कृत्रिमाकृतसत्क्रियः ॥ १६॥

कृतसम्पातनासिद्धिर्धारयेद्दक्षिणे करे ।
सहस्रानाम स्वर्णस्थं कण्ठे वापी जितेन्द्रियः ॥ १७॥

तदा यन्त्रे नमेन्मन्त्री क्रुद्धा सम्म्रियते नरः ।
यस्मै ददाति यः स्वस्ति स भवेद्धनदोपमः ॥ १८॥

दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते ।
बालकानामिमां रक्षां गर्भिणीनामपि ध्रुवम् ॥ १९॥

मोहनं स्तम्भनाकर्षमारणोच्चाटनानि च ।
यन्त्रधारणतो नूनं जायन्ते साधकस्य तु ॥ २०॥

नीलवस्त्रे विलिखतं ध्वजायां यदि तिष्ठति ।
तदा नष्टा भवत्येव प्रचण्डा परिवाहिनी ॥ २१॥

एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ।
तद्दर्शनत एव स्युः प्राणिनस्तस्य किङ्कराः ॥ २२॥

राजपत्न्योऽपि वशगाः किमन्याः परयोषितः ।
एतज्जप्तं पिबेत्तोयं मासैकेन महाकविः ॥ २३॥

पण्डितश्च महादीक्षो जायते नात्रसंशयः ।
शक्तिं सम्पूज्य देवेशि पठेत्स्तोत्रं वरं शुभम् ॥ २४॥

इह लोके सुखम्भुक्त्वा परत्र त्रिदिवं व्रजेत् ।
इति नामसहस्रं तु प्रत्यङ्गिरा मनोहरम् ॥ २५॥

गोप्यं गुप्ततमं लोके गोपनीयं स्वयोनिवत् ॥ २६॥

॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये
श्रीप्रत्यङ्गिरासहस्रनामस्तोत्रं सम्पूर्णम् ॥

Sri Pratyangira

Shri Pratyangira Sahasranamastotram Lyrics in English

॥ Sripratyangirasahasranamastotram॥
Srirudrayamalatantre Dasavidyarahasye

Isvara Uvaca ।
Srnu Devi Pravaksyami Sampratam Tvatpurahsaram ।
Sahasranama Paramam Pratyangirayah Siddhaye ॥

Sahasranamapathe Yah Sarvatra Vijayi Bhavet ।
Parabhavo Na Casyasti Sabhayam Vasane Rane ॥

Tatha Tusta Bhaveddevi Pratyangirasya Pathatah ।
Yatha Bhavati Devesi Sadhakah Siva Eva Hi ॥

Asvamedhasahasrani Vajapeyasya Kotayah ।
Sakrtpathena Jayante Prasanna Yatpara Bhavet ॥

Bhairavo’sya Rsischando’nustup Devi Samirita ।
Pratyangira Viniyogah Syatsarvasampatti Hetave ॥

Sarvakaryesu Samsiddhih Sarvasampattida Bhavet ।
Evam Dhyatva Patheddevim Yadichedatmano Hitam ॥

Atha Dhyanam ।
Asambara Muktakaca Ghanacchavirdhyeya Sacarmasikara Vibhusana ।
Damstrogravaktra Grasitahita Tvaya Pratyangira Sankaratejaserita ॥

Om Asya Sripratyangirasahasranamamahamantrasya,
Bhairava Rsih, Anustup Chandah, Sripratyangira Devata,
Hrim Bijam, Srim Saktih, Svaha Kilakam
Mama Sarvakaryasiddhayarthe Vidyasiddhyarthe Namaparayane Viniyogah ।
Om Devi Pratyangira Sevya Sirasa Sasisekhara ।
Sama’sama Dharmini Ca Samastasurasemusi ॥ 1 ॥

Sarvasampattijanani Samada Sindhusevini ।
Sambhusimantini Somaradhya Ca Vasudha Rasa ॥ 2 ॥

Rasa Rasavati Vela Vanya Ca Vanamalini ।
Vanajaksi Vanacari Vani Vanavinodini ॥ 3 ॥

Vegini Vegada Vegabala Sthanabaladhika ।
Kala Kalapriya Kauli Komala Kalakamini ॥ 4 ॥

Kamala Kamalasya Ca Kamalastha Kalavati ।
Kulina Kutila Kanta Kokila Kulabhasini ॥ 5 ॥

Kirakelih Kala Kali Kapalinyapi Kalika ।
Kesini Ca Kusavarta Kausambi Kesavapriya ॥ 6 ॥

Kasi Kasapaha Kamsisankasa Kesadayini ।
Kundali Kundalistha Ca Kundalangadamandita ॥ 7 ॥

Kusapasi Kumudini Kumudapritivardhini ।
Kundapriya Kundarucih Kurangamadamodini ॥ 8 ॥

Kuranganayana Kunda Kuruvrndabhinandini ।
Kusumbhakusuma Kincitkvanatkinkinika Katuh ॥ 9 ॥

Kathora Karana Kantha Kaumudi Kambukanthini ।
Kapardini Kapatini Kathini Kalakanthika ॥ 10 ॥

Kibruhasta Kumari Ca Kurunda Kusumapriya ।
Kunjarastha Kunjarata Kumbhikumbhastanadvaya ॥ 11 ॥

Kumbhika Karabhorusca Kadalidalasalini ।
Kupita Kotarastha Ca Kankali Kandasekhara ॥ 12 ॥

Ekantavasini Kincitkampamanasiroruha ।
Kadambari Kadambastha Kunkumi Premadharini ॥ 13 ॥

Kutumbini Priyayukta Kratuh Kratukari Kriya ।
Katyayani Krttika Ca Kartikeyapravartini ॥ 14 ॥

Kamapatni Kamadhatri Kamesi Kamavandita ।
Kamarupa Kamagatih Kamaksi Kamamohita ॥ 15 ॥

Khadgini Khecari Khanja Khanjariteksana Khala ।
Kharaga Kharanasa Ca Kharasya Khelanapriya ॥ 16 ॥

Kharamsuh Khetini Kharakhatvangadharini ।
Khalakhandini Vikhyatih Khandita Khandavi Sthira ॥ 17 ॥

Khandapriya Khandakhadya Sendukhanda Ca Khanjani ।
Ganga Godavari Gauri Gomatyapi Ca Gautami ॥ 18 ॥

Gaya Gaurgaji Gagana Garudi Garudadhvaja ।
Gita Gitapriya Gotra Gotraksayakari Gada ॥ 19 ॥

Giribhupaladuhita Goga Gokulavardhini ।
Ghanastani Ghanarucirghanorurghananihsvana ॥ 20 ॥

Ghutkarini Ghutakari Ghughukaparivarita ।
Ghantanadapriya Ghanta Ghanaghotapravahini ॥ 21 ॥

Ghorarupa Ca Ghora Ca Ghunipriti Ghananjani ।
Ghrtaci Ghanamustisca Ghataghanta Ghatamrta ॥ 22 ॥

Ghatasya Ghatanada Ca Ghatapatanivarini ।
Cancarika Cakori Ca Camunda Ciradharini ॥ 23 ॥

Caturi Capala Caruscala Cela Calacala ।
Catuscirantana Caka Ciya Camikaracchavih ॥ 24 ॥

Capini Capala Campuscittacintamaniscita ।
Caturvarnyamayi Cancaccaura Capa Camatkrtih ॥ 25 ॥

Cakravarti Vadhuscakra Cakranga Cakramodini ।
Cetascari Cittavrttiraceta Cetanaprada ॥ 26 ॥

Campeyi Campakapritiscandi Candalavasini । (Capriya Cakrika)
Ciranjivitadacitta Tarumulanivasini ॥ 27 ॥

Churika Chatramadhyastha Chidra Chedakari Chida ।
Chucchundaripalapritih Chundaribhanibhasvana ॥ 28 ॥

Chalini Chalavacchinna Chitika Chekakrttatha ।
Chadmini Chandasi Chaya Chayakrcchadirityapi ॥ 29 ॥

Jaya Ca Jayada Jatirjrmbhini Jamalayuta ।
Jayapuspapriya Jaya Japya Japyajagajjanih ॥ 30 ॥

Jambupriya Jayastha Ca Jangama Jangamapriya ।
Janturjantupradhana Ca Jaratkarna Jaradgava ॥ 31 ॥

Jatipriya Jivanastha Jimutasadrsacchavih ।
Janya Janahita Jaya Jambhajambhilasalini ॥ 32 ॥

Javada Javavadvaha Jamani Jvaraha Jvari ।
Jhanjha Nilamayi Jhanjhajhanatkarakaracala ॥ 33 ॥

Jhimtisa Jhasyakrt Jhampa Yamatrasanivarini ।
Tankarastha Tankadhara Tankarakarana Tasi ॥ 34 ॥ Var Takarastha
Thakura Thikrtiscaiva Thinthiravasanavrta ।
Thantha Nilamayi Thantha Thanatkarakara Thasa ॥ 35 ॥

Dakini Damara Caiva Dindimadhvaninadini ।
Dhakkapriyasvana Dhakkatapini Tapini Tatha ॥ 36 ॥

Taruni Tundila Tunda Tamasi Ca Tapahpriya ।
Tamra Tamrambara Tali Talidalavibhusana ॥ 37 ॥

Turanga Tvarita Tota Totala Tadini Tula ।
Tapatrayahara Tara Talakesi Tamalini ॥ 38 ॥

Tamaladalavacchaya Talasvanavati Tami ।
Tamasi Ca Tamisra Ca Tivra Tivraparakrama ॥ 39 ॥

Tatasthatilatailakta Tarini Tapanadyutih ।
Tilottama Tilakakrttarakadhisasekhara ॥ 40 ॥

Tilapuspapriya Tara Tarakesakutumbini ।
Sthanupatni Sthitikari Sthalastha Sthalavardhini ॥ 41 ॥

Sthitisthairya Sthavistha Ca Sthavatih Sthulavigraha ।
Dantini Dandini Dina Daridra Dinavatsala ॥ 42 ॥

Devi Devavadhurdaityadamini Dantabhusana ।
Dayavati Damavati Damada Dadimastani ॥ 43 ॥

Dandasukanibha Daityadarini Devata”nana ।
Dolakrida Dayalusca Dampati Devatamayi ॥ 44 ॥

Dasa Dipasthita Dosa Dosaha Dosakarini ।
Durga Durgartisamani Durgama Durgavasini ॥ 45 ॥

Durgandhanasini Duhstha Duhsvapnasamakarini ।
Durvara Dundubhidhvana Duraga Duravasini ॥ 46 ॥

Darada Daraha Datri Dayada Duhita Dasa ।
Dhurandhara Dhurina Ca Dhaureyi Dhanadayini ॥ 47 ॥

Dhira Dhiradharitri Ca Dharmada Dhiramanasa ।
Dhanurdhara Ca Dhamini Dhurta Dhurtaparigraha ॥ 48 ॥

Dhumavarna Dhumapana Dhumala Dhumamodini ।
Nalini Nandani Nanda Nandini Nandabalika ॥ 49 ॥

Navina Narmada Narmi Nemirniyamaniscaya ।
Nirmala Nigamacara Nimnaga Nagnika Nimih ॥ 50 ॥

Nala Nirantara Nighni Nirlepa Nirguna Natih ।
Nilagriva Niriha Ca Niranjanajani Navi ॥ 51 ॥

Navanitapriya Nari Narakarnavatarini ।
Narayani Nirakara Nipuna Nipunapriya ॥ 52 ॥

Nisa Nidra Narendrastha Namita Namitapi Ca ।
Nirgundika Ca Nirgunda Nirmamsa Nasikabhidha ॥ 53 ॥

Patakini Pataka Ca Palapritiryasasvini ।
Pina Pinastana Patni Pavanasanasayini ॥ 54 ॥

Para Parakala Paka Pakakrtyaratipriya ।
Pavanastha Supavana Tapasi Pritivardhini ॥ 55 ॥

Pasuvrddhikari Pustih Posani Puspavardhini ।
Puspini Pustakakara Punnagatalavasini ॥ 56 ॥

Purandarapriya Pritih Puramarganivasini ।
Pesa Pasakara Pasabandhaha Pamsulapasuh ॥ 57 ॥

Patah Patasa Parasudharini Pasini Tatha ।
Papaghni Patipatni Ca Patita’patitapi Ca ॥ 58 ॥

Pisaci Ca Pisacaghni Pisitasanatosita ।
Panada Panapatra Ca Panadanakarodyata ॥ 59 ॥

Pesa Prasiddhih Piyusa Purna Purnamanoratha ।
Patadgarbha Patadgatra Paunahpunyapivapura ॥ 60 ॥

Pankila Pankamagna Ca Pamipa Panjarasthita ।
Pancama Pancayama Ca Pancata Pancamapriya ॥ 61 ॥

Pancamudra Pundarika Pingala Pingalocana ।
Priyangumanjari Pindi Pandita Panduraprabha ॥ 62 ॥

Pretasana Priyalustha Pandughni Pitasapaha ।
Phalini Phaladatri Ca Phalasri Phanibhusana ॥ 63 ॥

Phutkarakarini Sphara Phulla Phullambujasana ।
Phirangaha Sphitamatih Sphitih Sphitikari Tatha ॥ 64 ॥

Vanamaya Balaratirbalini Balavardhini ।
Venuvadya Vanacari Vira Bijamayi Api ॥ 65 ॥

Vidya Vidyaprada Vidyabodhini Vedadayini ।
Budhamata Ca Buddha Ca Vanamalavati Vara ॥ 66 ॥

Varada Varuni Vina Vinavadanatatpara ।
Vinodini Vinodastha Vaisnavi Visnuvallabha ॥ 67 ॥

Vidya Vaidyacikitsa Ca Vivasa Visvavisruta ।
Vitandra Vihvala Vela Virava Viratirvara ॥ 68 ॥

Vividharkakara Vira Bimbosthi Bimbavatsala ।
Vindhyastha Viravandya Ca Variyanaparacavit ॥ 69 ॥

Vedantavedya Vaidya Ca Vedasya Vijayaprada ।
Virodhavardhini Vandhya Vandhyabandhanivarini ॥ 70 ॥

Bhagini Bhagamala Ca Bhavani Bhayabhavini ।
Bhima Bhimanana Bhaimi Bhangura Bhimadarsana ॥ 71 ॥

Bhilli Bhalladhara Bhirurbherundi Bhirbhayapaha ।
Bhagasarpinyapi Bhaga Bhagarupa Bhagalaya ॥ 72 ॥

Bhagasana Bhagamoda Bheri Bhankararanjita ।
Bhisana Bhisanarava Bhagavatyapi Bhusana ॥ 73 ॥

Bharadvaji Bhogadatri Bhavaghni Bhutibhusana ।
Bhutida Bhumidatri Ca Bhupatitvapradayini ॥ 74 ॥

Bhramari Bhramari Nila Bhupalamukutasthita ।
Matta Manoharamana Manini Mohani Mahi ॥ 75 ॥ Var Bhamini
Mahalaksmirmadaksiba Madiya Madiralaya ।
Madoddhata Matangastha Madhavi Madhumadini ॥ 76 ॥

Medha Medhakari Medhya Madhya Madhyavayasthita ।
Madyapa Mamsala Matsyamodini Maithunoddhata ॥ 77 ॥

Mudra Mudravati Mata Maya Mahima Mandira ।
Mahamaya Mahavidya Mahamari Mahesvari ॥ 78 ॥

Mahadevavadhurmanya Madhura Viramandala ।
Medasvini Miladasrirmahisasuramardini ॥ 79 ॥

Mandapastha Mathastha Ca Madiragamagarvita ।
Moksada Mundamala Ca Mala Malavilasini ॥ 80 ॥

Matangini Ca Matangi Matangatanayapi Ca ।
Madhusrava Madhurasa Madhukakusumapriya ॥ 81 ॥

Yamini Yamininathabhusa Yavakaranjita ।
Yavankurapriya Maya Yavani Yavanadhipa ॥ 82 ॥

Yamaghni Yamakanya Ca Yajamanasvarupini ।
Yajna Yajva Yajuryajva Yasonikarakarini ॥ 83 ॥

Yajnasutraprada Jyestha Yajnakarmakari Tatha ।
Yasasvini Yakarastha Yupastambhanivasini ॥ 84 ॥

Ranjita Rajapatni Ca Rama Rekha Raverani ।
Rajovati Rajascitra Rajani Rajanipatih ॥ 85 ॥

Ragini Rajyanirajya Rajyada Rajyavardhini ।
Rajanvati Rajanitistatha Rajatavasini ॥ 86 ॥

Ramani Ramaniya Ca Rama Ramavati Ratih ।
Retovati Ratotsaha Rogahrdrogakarini ॥ 87 ॥

Ranga Rangavati Raga Ragajna Ragakrdrana ।
Ranjika Ranjikaranja Ranjini Raktalocana ॥ 88 ॥

Raktacarmadhara Ranja Raktastha Raktavadini ।
Rambha Rambhaphalapriti Rambhoru Raghavapriya ॥ 89 ॥

Rangabhrdrangamadhura Rodasi Rodasigraha ।
Rodhakrdrodhahantri Ca Rogabhrdrogasayini ॥ 90 ॥

Vandi Vadistuta Bandha Bandhukakusumadhara ।
Vanditra Vanditamata Vindura Vaindavividha ॥ 91 ॥

Vinki Vinkapala Vinka Vinkastha Vinkavatsala ।
Vadirvilagna Vipra Ca Vidhirvidhikari Vidha ॥ 92 ॥

Sankhini Sankhavalaya Sankhamalavati Sami ।
Sankhapatrasini Sankhasankha Sankhagala Sasi ॥ 93 ॥

Samvi Saravati Syama Syamangi Syamalocana ।
Smasanastha Smasana Ca Smasanasthalabhusana ॥ 94 ॥

Samada Samahantri Ca Sakini Sankusekhara ।
Santih Santiprada Sesa Sesastha Sesadayini ॥ 95 ॥

Semusi Sosini Siri Saurih Saurya Sara Sirih ।
Sapaha Sapahanisa Sampa Sapathadayini ॥ 96 ॥

Srngini Srngapalabhuk Sankari Sankari Ca Ya ।
Sanka Sankapaha Samstha Sasvati Sitala Siva ॥ 97 ॥

Sivastha Savabhukta Ca Savavarna Sivodari ।
Sayini Savasayana Simsapa Sisupalini ॥ 98 ॥

Savakundalini Saiva Sankara Sisira Sira ।
Savakanci Savasrika Savamala Savakrtih ॥ 99 ॥

Sayani Sankuva Saktih Santanuh Siladayini ।
Sindhuh Sarasvati Sindhusundari Sundaranana ॥ 100 ॥

Sadhuh Siddhih Siddhidatri Siddha Siddhasarasvati ।
Santatih Sampada Sampatsamvitsaratidayini ॥ 101 ॥

Sapatni Sarasa Sara Sarasvatikari Svadha ।
Sarahsama Samana Ca Samaradhya Samastada ॥ 102 ॥

Samiddha Samada Samma Sammoha Samadarsana ।
Samitih Samidha Sima Savitri Savidha Sati ॥ 103 ॥

Savata Savanadara Savana Samara Sami ।
Simira Satata Sadhvi Saghrici Ca Sahayini ॥ 104 ॥

Hamsi Hamsagatirhamsa Hamsojjvalanicoluyuk ।
Halini Halada Hala Harasrirharavallabha ॥ 105 ॥

Hela Helavati Hesa Hresastha Hresavardhini ।
Hanta Hantirhata Hatya Ha Hanta Tapaharini ॥ 106 ॥

Hankari Hantakrddhanka Hiha Hata Hatahata ।
Hemaprada Hamsavati Hari Hatarisammata ॥ 107 ॥

Hori Hotri Holika Ca Homa Homo Havirharih ।
Harini Harininetra Himacalanivasini ॥ 108 ॥

Lambodari Lambakarna Lambika Lambavigraha ।
Lila Lolavati Lola Lalani Lalita Lata ॥ 109 ॥ Var Loka
Lalamalocana Locya Lolaksi Laksana Lala ।
Lampati Lumpati Lampa Lopamudra Lalantini ॥ 110 ॥

Lantika Lambika Lamba Laghima Laghumadhyama ।
Laghiyasi Laghudayi Luta Lutanivarini ॥ 111 ॥

Lomabhrllomalopta Ca Luluti Lulusamyati ।
Lulayastha Ca Lahari Lankapurapurandari ॥ 112 ॥

Laksmirlaksmiprada Laksmya Laksabalamatiprada ।
Ksunna Ksupa Ksana Ksina Ksama Ksantih Ksanavati ॥ 113 ॥

Ksama Ksamodari Ksima Ksaumabhrtksatriyangana ।
Ksaya Ksayakari Ksira Ksirada Ksirasagara ॥ 114 ॥

Ksemankari Ksayakari Ksayada Ksanada Ksatih ।
Ksuranti Ksudrika Ksudra Ksutksama Ksarapataka ॥ 115 ॥

॥ Phalasrutih ॥

Matuh Sahasranamedam Pratyangirya Varapradam ॥ 1 ॥

Yah Pathetprayato Nityam Sa Eva Syanmahesvarah ।
Anacantah Pathennityam Daridro Dhanado Bhavet ॥ 2 ॥

( Var Yah Pathetprayato Nityam Daridro Dhanado Bhavet)
Mukah Syadvakpatirdevi Rogi Nirogatam Vrajet ।
Aputrah Putramapnoti Trisu Lokesu Visrutam ॥ 3 ॥

Vandhyapi Sute Tanayan Gavasca Bahudugdhadah ।
Rajanah Padanamrah Syustasyadasa Iva Sphutah ॥ 4 ॥

Arayah Sanksayam Yanti Manasa Samsmrta Api ।
Darsanadeva Jayante Nara Naryo’pi Tadvasah ॥ 5 ॥

Karta Harta Svayamviro Jayate Natrasamsayah ।
Yam Yam Kamayate Kamam Tam Tam Prapnoti Niscitam ॥ 6 ॥

Duritam Na Ca Tasyaste Nasti Sokah Kadacana ।
Catuspathe’rdharatre Ca Yah Pathetsadhakottamah ॥ 7 ॥

Ekaki Nirbhayo Dhiro Dasavartam Stavottamam ।
Manasa Cintitam Karyam Tasya Sidhirna Samsayah ॥ 8 ॥

Vina Sahasranamna Yo Japenmantram Kadacana ।
Na Siddho Jayate Tasya Mantrah Kalpasatairapi ॥ 9 ॥

Kujavare Smasane Ca Madhyanhe Yo Japedatha ।
Satavartya Sarjayeta Karta Harta Nrnamiha ॥ 10 ॥

Rogantardho Nisayante Pathitamasi Samsthitah ।
Sadyo Nirogatameti Yadi Syannirbhayastada ॥ 11 ॥

Ardharatre Smasane Va Sanivare Japenmanum ।
Astottarasahasram Taddasavaram Japettatah ॥ 12 ॥

Sahasranama Cettaddhi Tada Yati Svayam Siva ।
Mahapavanarupena Ghoragomayunadini ॥ 13 ॥

Tada Yadi Na Bhitih Syattato Drohiti Va Bhavet ।
Tada Pasubalim Dadyatsvayam Grnhati Candika ॥ 14 ॥

Yathestam Ca Varam Dattva Yati Pratyangira Siva ।
Rocanagurukasturi Karpuramadacandanah ॥ 15 ॥

Kunkumaprathamabhyam Tu Likhitam Bhurjapatrake ।
Subhanaksatrayoge Tu Krtrimakrtasatkriyah ॥ 16 ॥

Krtasampatanasiddhirdharayeddaksine Kare ।
Sahasranama Svarnastham Kanthe Vapi Jitendriyah ॥ 17 ॥

Tada Yantre Namenmantri Kruddha Sammriyate Narah ।
Yasmai Dadati Yah Svasti Sa Bhaveddhanadopamah ॥ 18 ॥

Dustasvapadajantunam Na Bhih Kutrapi Jayate ।
Balakanamimam Raksam Garbhininamapi Dhruvam ॥ 19 ॥

Mohanam Stambhanakarsamaranoccatanani Ca ।
Yantradharanato Nunam Jayante Sadhakasya Tu ॥ 20 ॥

Nilavastre Vilikhatam Dhvajayam Yadi Tisthati ।
Tada Nasta Bhavatyeva Pracanda Parivahini ॥ 21 ॥

Etajjaptam Mahabhasma Lalate Yadi Dharayet ।
Taddarsanata Eva Syuh Praninastasya Kinkarah ॥ 22 ॥

Rajapatnyo’pi Vasagah Kimanyah Parayositah ।
Etajjaptam Pibettoyam Masaikena Mahakavih ॥ 23 ॥

Panditasca Mahadikso Jayate Natrasamsayah ।
Saktim Sampujya Devesi Pathetstotram Varam Subham ॥ 24 ॥

Iha Loke Sukhambhuktva Paratra Tridivam Vrajet ।
Iti Namasahasram Tu Pratyangira Manoharam ॥ 25 ॥

Gopyam Guptatamam Loke Gopaniyam Svayonivat ॥ 26 ॥

॥ Iti Srirudrayamale Tantre Dasavidyarahasye
Sripratyangirasahasranamastotram Sampurnam ॥

Facebook Comments