Sri Subrahmanya Sahasranama Stotram

14
Sri Subrahmanya Sahasranama Stotram

Sri Subrahmanya Sahasranama Stotram is a sacred hymn dedicated to Lord Subrahmanya (also known as Lord Murugan or Kartikeya), who is a prominent deity in Hinduism, particularly worshipped in South India. This stotram is a compilation of a thousand names (sahasranama) of Lord Subrahmanya, and it is chanted by devotees as an act of devotion and for seeking his blessings, protection, and guidance. According to scriptures, chanting the Thousand Names of Lord Muruga daily can help you get rid of sins and receive blessings for security, peace, success, and happiness.

The stotram generally consists of a series of verses, each containing a specific name of Lord Subrahmanya along with its associated qualities, attributes, and divine aspects. Chanting or reciting these names with devotion is believed to invoke the blessings of the deity and bring spiritual and material benefits to the devotee.

Sri Subrahmanya Sahasranama Stotram – श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम्

ऋषय ऊचुः ।
सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।
वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ १ ॥

ज्ञानदानेन संसारसागरात्तारयस्व नः ।
कलौ कलुषचित्ता ये नराः पापरताः सदा ॥ २ ॥

केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनात् ।
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥ ३ ॥

सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ।
श्रीसूत उवाच ।
शृणुध्वं ऋषयः सर्वे नैमिशारण्यवासिनः ॥ ४ ॥

तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः ।
स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने ॥ ५ ॥

तदहं सम्प्रवक्ष्यामि श्रोतुं कौतूहलं यदि ।
ऋषय ऊचुः ।
किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥ ६ ॥

सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् ।
श्रीसूत उवाच ।
दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥ ७ ॥

साष्टाङ्गं प्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् ।
नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥ ८ ॥

नारद उवाच ।
लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।
षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥ ९ ॥

हे धातः पुत्रवात्सल्यात्तद्वद प्रणताय मे ।
उपदिश्य तु मामेवं रक्ष रक्ष कृपानिधे ॥ १० ॥

ब्रह्मोवाच ।
शृणु वक्ष्यामि देवर्षे स्तवराजमिदं परम् ।
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥ ११ ॥

सहस्राणि च नामानि षण्मुखस्य महात्मनः ।
यानि नामानि दिव्यानि दुःखरोगहराणि च ॥ १२ ॥

तानि नामानि वक्ष्यामि कृपया त्वयि नारद ।
जपमात्रेण सिद्ध्यन्ति मनसा चिन्तितान्यपि ॥ १३ ॥

इहामुत्र परं भोगं लभते नात्र संशयः ।
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।
सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥ १४ ॥

ओं अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः सुब्रह्मण्यो देवता शरजन्माक्षय इति बीजं शक्तिधरोऽक्षय कार्तिकेय इति शक्तिः क्रौञ्चधर इति कीलकं शिखिवाहन इति कवचं षण्मुखाय इति ध्यानम् श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः –
ओं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अङ्गुष्ठाभ्यां नमः ।
ओं रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः ।
ओं वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।
ओं णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः ।
ओं भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः ।
ओं वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः ।
ओं रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा ।
ओं वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् ।
ओं णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् ।
ओं भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् ।
ओं वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं
काञ्चीकङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ॥ १ ॥

ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ।
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं
देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ २ ॥

स्तोत्रम् ।
अचिन्त्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः ।
अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥ १ ॥

अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः ।
अनन्तमहिमाऽपारोऽनन्तसौख्यप्रदोऽव्ययः ॥ २ ॥

अनन्तमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः ।
अकल्मषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः ॥ ३ ॥

[* अतुलश्चामृतोऽघोरो ह्यनन्तोऽनन्तविक्रमः *]
अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ।
अरिन्दमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः ॥ ४ ॥

अचञ्चलोऽमरस्तुत्यो ह्यकलङ्कोऽमिताशनः ।
अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः ॥ ५ ॥

अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ।
आपद्विनाशकस्त्वार्य आढ्य आगमसंस्तुतः ॥ ६ ॥

आर्तसंरक्षणस्त्वाद्य आनन्दस्त्वार्यसेवितः ।
आश्रितेष्टार्थवरद आनन्द्यार्तफलप्रदः ॥ ७ ॥

आश्चर्यरूप आनन्द आपन्नार्तिविनाशनः ।
इभवक्त्रानुजस्त्विष्ट इभासुरहरात्मजः ॥ ८ ॥

इतिहासश्रुतिस्तुत्य इन्द्रभोगफलप्रदः ।
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ॥ ९ ॥

इहामुत्रेष्टफलद इष्टदस्त्विन्द्रवन्दितः ।
ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥ १० ॥

ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः ।
उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः ॥ ११ ॥

उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ।
उज्जृम्भ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः ॥ १२ ॥

उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः ।
उरुप्रभावश्चोदीर्ण उमापुत्र उदारधीः ॥ १३ ॥

ऊर्ध्वरेतःसुतस्तूर्ध्वगतिदस्तूर्जपालकः ।
ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः ॥ १४ ॥

ऊर्जावानूर्जितोदार ऊर्जितोर्जितशासनः ।
ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः ॥ १५ ॥

ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः ।
ऋतम्भरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः ॥ १६ ॥

लुलितोद्धारको लूतभवपाशप्रभञ्जनः ।
एणाङ्कधरसत्पुत्र एक एनोविनाशनः ॥ १७ ॥

ऐश्वर्यदश्चैन्द्रभोगी चैतिह्यश्चैन्द्रवन्दितः ।
ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥ १८ ॥

औदार्यशील औमेय औग्र औन्नत्यदायकः ।
औदार्य औषधकर औषधं चौषधाकरः ॥ १९ ॥

अंशुमानंशुमालीड्य अम्बिकातनयोऽन्नदः ।
अन्धकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः ॥ २० ॥

अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः ।
अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ॥ २१ ॥

कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ।
कामदः कारणं काम्यः कमनीयः कृपाकरः ॥ २२ ॥

काञ्चनाभः कान्तियुक्तः कामी कामप्रदः कविः ।
कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः ॥ २३ ॥

कुङ्कुमाङ्गः क्लमहरः कुशलः कुक्कुटध्वजः ।
कुशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहृत् ॥ २४ ॥

कामरूपः कल्पतरुः कान्तः कामितदायकः ।
कल्याणकृत्क्लेशनाशः कृपालुः करुणाकरः ॥ २५ ॥

कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती ।
कोमलाङ्गः कुशप्रीतः कुत्सितघ्नः कलाधरः ॥ २६ ॥

ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः ।
ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः ॥ २७ ॥

खरतापहरः स्वस्थः खेचरः खेचराश्रयः ।
खण्डेन्दुमौलितनयः खेलः खेचरपालकः ॥ २८ ॥

खस्थलः खण्डितार्कश्च खेचरीजनपूजितः ।
गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥ २९ ॥

गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ।
गतिप्रदो गुणनिधिः गम्भीरो गिरिजात्मजः ॥ ३० ॥

गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः ।
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ॥ ३१ ॥

गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणाश्रयः ।
गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः ॥ ३२ ॥

गणनीयचरित्रश्च गतक्लेशो गुणार्णवः ।
घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः ॥ ३३ ॥

घण्टानादप्रियो घोषो घोराघौघविनाशनः ।
घनानन्दो घर्महन्ता घृणावान् घृष्टिपातकः ॥ ३४ ॥

घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः ।
घटितैश्वर्यसन्दोहो घनार्थो घनसङ्क्रमः ॥ ३५ ॥

चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः ।
चिन्मयश्चित्स्वरूपश्च चिरानन्दश्चिरन्तनः ॥ ३६ ॥

चित्रकेलिश्चित्रतरश्चिन्तनीयश्चमत्कृतिः ।
चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः ॥ ३७ ॥

चन्द्रार्ककोटिसदृशश्चन्द्रमौलितनूभवः ।
छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः ॥ ३८ ॥

छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः ।
छादिताशेषसन्तापश्छुरितामृतसागरः ॥ ३९ ॥

छन्नत्रैगुण्यरूपश्च छातेहश्छिन्नसंशयः ।
छन्दोमयश्छन्दगामी छिन्नपाशश्छविश्छदः ॥ ४० ॥

जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः ।
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥ ४१ ॥

जयी जितेन्द्रियो जैत्रो जरामरणवर्जितः ।
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥ ४२ ॥

जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः ।
जम्भारिवन्द्यो जयदो जगज्जनमनोहरः ॥ ४३ ॥

जगदानन्दजनको जनजाड्यापहारकः ।
जपाकुसुमसङ्काशो जनलोचनशोभनः ॥ ४४ ॥

जनेश्वरो जितक्रोधो जनजन्मनिबर्हणः ।
जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः ॥ ४५ ॥

जितमायो जितक्रोधो जितसङ्गो जनप्रियः ।
झञ्झानिलमहावेगो झरिताशेषपातकः ॥ ४६ ॥

झर्झरीकृतदैत्यौघो झल्लरीवाद्यसम्प्रियः ।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ ४७ ॥

टङ्कारनृत्तविभवः टङ्कवज्रध्वजाङ्कितः ।
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ४८ ॥

डम्बरप्रभवो डम्भो डम्बो डमरुकप्रियः । [डमड्ड]
डमरोत्कटसन्नादो डिम्भरूपस्वरूपकः ॥ ४९ ॥

ढक्कानादप्रीतिकरो ढालितासुरसङ्कुलः ।
ढौकितामरसन्दोहो ढुण्ढिविघ्नेश्वरानुजः ॥ ५० ॥

तत्त्वज्ञस्तत्वगस्तीव्रस्तपोरूपस्तपोमयः ।
त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ५१ ॥

त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः ।
तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् ॥ ५२ ॥

स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तुतिप्रियः ।
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ ५३ ॥

स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ।
दान्तो दयापरो दाता दुरितघ्नो दुरासदः ॥ ५४ ॥

दर्शनीयो दयासारो देवदेवो दयानिधिः ।
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ॥ ५५ ॥

दुर्धरो दानशीलश्च द्वादशाक्षो द्विषड्भुजः ।
द्विषट्कर्णो द्विषड्बाहुर्दीनसन्तापनाशनः ॥ ५६ ॥

दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः ।
दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः ॥ ५७ ॥

दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः ।
दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमण्डनः ॥ ५८ ॥

दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशां पतिः ।
दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः ॥ ५९ ॥

दम्भो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिन्तकः ।
धुरन्धरो धर्मपरो धनदो धृतिवर्धनः ॥ ६० ॥

धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ।
धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः ॥ ६१ ॥

धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद्ध्रुवः ।
धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः ॥ ६२ ॥

नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।
निरवद्यो निराधारो निष्कलङ्को निरञ्जनः ॥ ६३ ॥

निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।
नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥ ६४ ॥

निरवद्यो निरीहश्च निर्दर्शो निर्मलात्मकः ।
नित्यानन्दो निर्जरेशो निःसङ्गो निगमस्तुतः ॥ ६५ ॥

निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्भवः ।
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥ ६६ ॥

नेता निधिर्नैकरूपो निराकारो नदीसुतः ।
पुलिन्दकन्यारमणः पुरुजित्परमप्रियः ॥ ६७ ॥

प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ।
पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः ॥ ६८ ॥

पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः ।
परानन्दः परतरः पुण्यकीर्तिः पुरातनः ॥ ६९ ॥

प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ।
प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः ॥ ७० ॥

पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ।
प्रसन्नः परमस्पष्टः परः परिबृढः परः ॥ ७१ ॥

परमात्मा परब्रह्म परार्थः प्रियदर्शनः ।
पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः ॥ ७२ ॥

पापहारी पाशधरः प्रमत्तासुरशिक्षकः ।
पावनः पावकः पूज्यः पूर्णानन्दः परात्परः ॥ ७३ ॥

पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः ।
प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः ॥ ७४ ॥

परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् ।
परर्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् ॥ ७५ ॥

प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ।
फणीश्वरः फणिवरः फणामणिविभूषणः ॥ ७६ ॥

फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः ।
फडुच्चाटितपापौघः फणिलोकविभूषणः ॥ ७७ ॥

बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली ।
ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः ॥ ७८ ॥

बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः ।
बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ७९ ॥

बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।
बृहद्भानुतनूद्भूतो बृहत्सेनो बिलेशयः ॥ ८० ॥

बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः ।
बिलद्वारान्तरालस्थो बृहच्छक्तिधनुर्धरः ॥ ८१ ॥

बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः ।
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥ ८२ ॥

भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।
भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः ॥ ८३ ॥

भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ।
भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥ ८४ ॥

भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः ।
भवतापप्रशमनो भोगवान् भूतभावनः ॥ ८५ ॥

भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः ।
भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥ ८६ ॥

महासेनो महोदारो महाशक्तिर्महाद्युतिः ।
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ॥ ८७ ॥

महाभोगी महामायी मेधावी मेखली महान् ।
मुनिस्तुतो महामान्यो महानन्दो महायशाः ॥ ८८ ॥

महोर्जितो माननिधिर्मनोरथफलप्रदः ।
महोदयो महापुण्यो महाबलपराक्रमः ॥ ८९ ॥

मानदो मतिदो माली मुक्तामालाविभूषणः ।
मनोहरो महामुख्यो महर्धिर्मूर्तिमान्मुनिः ॥ ९० ॥

महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः ।
मुदाकरो मुक्तिदाता महाभोगो महोरगः ॥ ९१ ॥

यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ।
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ॥ ९२ ॥

यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ।
यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रवाहकः ॥ ९३ ॥

यातनारहितो योगी योगीशो योगिनां वरः ।
रमणीयो रम्यरूपो रसज्ञो रसभावनः ॥ ९४ ॥

रञ्जनो रञ्जितो रागी रुचिरो रुद्रसम्भवः ।
रणप्रियो रणोदारो रागद्वेषविनाशनः ॥ ९५ ॥

रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः ।
रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ॥ ९६ ॥

रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः ।
राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥ ९७ ॥

राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः ।
रजनीशकलारम्यो रत्नकुण्डलमण्डितः ॥ ९८ ॥

रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः ।
लोकैकनाथो लोकेशो ललितो लोकनायकः ॥ ९९ ॥

लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ।
लोकबन्धुर्लोकधाता लोकत्रयमहाहितः ॥ १०० ॥

लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः ।
लोकाध्यक्षस्तु लीलावान्लोकोत्तरगुणान्वितः ॥ १०१ ॥

वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः ।
विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥ १०२ ॥

विपाशो विगतातङ्को विचित्राङ्गो विरोचनः ।
विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥ १०३ ॥

वचस्करो व्यापकश्च विज्ञानी विनयान्वितः ।
विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥ १०४ ॥

वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः ।
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥ १०५ ॥

वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् ।
विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥ १०६ ॥

वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः ।
विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः ॥ १०७ ॥

वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः ।
विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥ १०८ ॥

वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी ।
वरशीलो वरगुणो विशोको वज्रधारकः ॥ १०९ ॥

शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः ।
श्रीमान् शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः ॥ ११० ॥

शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः ।
शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः ॥ १११ ॥

शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः ।
षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसम्युतः ॥ ११२ ॥

षट्चक्रस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः ।
षड्भावरहितः षट्कः षट्छास्त्रस्मृतिपारगः ॥ ११३ ॥

षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः ।
षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः ॥ ११४ ॥

षट्कोणमध्यनिलयः षण्डत्वपरिहारकः ।
सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः ॥ ११५ ॥

सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ।
सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः ॥ ११६ ॥

सिद्धार्थः सिद्धसङ्कल्पः सिद्धसाधुः सुरेश्वरः ।
सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः ॥ ११७ ॥

सुधापतिः स्वयञ्ज्योतिः स्वयम्भूः सर्वतोमुखः ।
समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ ११८ ॥

सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ।
सम्भाव्यः सुमनाः सेव्यः सकलागमपारगः ॥ ११९ ॥

सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ।
सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः ॥ १२० ॥

सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः ।
सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः ॥ १२१ ॥

सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ।
सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः ॥ १२२ ॥

सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः ।
सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः ॥ १२३ ॥

हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः ।
हस्तचित्रायुधधरो हृताघो हसिताननः ॥ १२४ ॥

हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः ।
हेमाद्रिभिद्धंसरूपो हुङ्कारहतकिल्बिषः ॥ १२५ ॥

हिमाद्रिजातातनुजो हरिकेशो हिरण्मयः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १२६ ॥

हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।
हरप्रियो हितकरो हतपापो हरोद्भवः ॥ १२७ ॥

क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ।
क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः ॥ १२८ ॥

क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।
क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः ॥ १२९ ॥

क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकः ।
क्षितिभृन्नाथतनयामुखपङ्कजभास्करः ॥ १३० ॥

क्षताहितः क्षरः क्षन्ता क्षतदोषः क्षमानिधिः ।
क्षपिताखिलसन्तापः क्षपानाथसमाननः ॥ १३१ ॥

उत्तर न्यासः ।
करन्यासः –
ओं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अङ्गुष्ठाभ्यां नमः ।
ओं रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः ।
ओं वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।
ओं णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः ।
ओं भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः ।
ओं वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः ।
ओं रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा ।
ओं वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् ।
ओं णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् ।
ओं भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् ।
ओं वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।

फलश्रुति ।
इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ १ ॥

स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ।
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥ २ ॥

वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति ।
तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥ ३ ॥

इति स्कन्दपुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम् ।

Sri Subrahmanya Sahasranama Stotram

Rishaya Oochuh |
Sarvashaastraarthatattvajnya Sarvalokopakaaraka |
Vayam Chaatithayah Praaptaa Aatitheyosi Suvrata || 1 ||

Jnyaanadaanena Samsaarasaagaraattaarayasva Nah |
Kalau Kalushachittaa Ye Naraah Paaparataah Sadaa || 2 ||

Kena Stotrena Muchyante Sarvapaatakabandhanaat |
Ishtasiddhikaram Punyam Duhkhadaaridryanaashanam || 3 ||

Sarvarogaharam Stotram Soota No Vaktumarhasi |
Shreesoota Uvaacha |
Shrinudhvam Rishayah Sarve Naimishaaranyavaasinah || 4 ||

Tattvajnyaanataponishthaah Sarvashaastravishaaradaah |
Svayambhuvaa Puraa Proktam Naaradaaya Mahaatmane || 5 ||

Tadaham Sampravakshyaami Shrotum Kautoohalam Yadi |
Rishaya Oochuh |
Kimaaha Bhagavaanbrahmaa Naaradaaya Mahaatmane || 6 ||

Sootaputra Mahaabhaaga Vaktumarhasi Saampratam |
Shreesoota Uvaacha |
Divyasimhaasanaaseenam Sarvadevairabhishtutam || 7 ||

Saashtaangam Pranipatyainam Brahmaanam Bhuvaneshvaram |
Naaradah Paripaprachchha Kritaanjalirupasthitah || 8 ||

Naarada Uvaacha |
Lokanaatha Surashreshtha Sarvajnya Karunaakara |
Shanmukhasya Param Stotram Paavanam Paapanaashanam || 9 ||

He Dhaatah Putravaatsalyaattadvada Pranataaya Me |
Upadishya Tu Maamevam Raksha Raksha Kripaanidhe || 10 ||

Brahmovaacha |
Shrinu Vakshyaami Devarshe Stavaraajamidam Param |
Maatrikaamaalikaayuktam Jnyaanamokshasukhapradam || 11 ||

Sahasraani Cha Naamaani Shanmukhasya Mahaatmanah |
Yaani Naamaani Divyaani Duhkharogaharaani Cha || 12 ||

Taani Naamaani Vakshyaami Kripayaa Tvayi Naarada |
Japamaatrena Siddhyanti Manasaa Chintitaanyapi || 13 ||

Ihaamutra Param Bhogam Labhate Naatra Samshayah |
Idam Stotram Param Punyam Kotiyajnyaphalapradam |
Sandeho Naatra Kartavyah Shrinu Me Nishchitam Vachah || 14 ||

Om Asya Shreesubrahmanyasahasranaamastotra Mahaamantrasya Brahmaa Rishih Anushtupchhandah Subrahmanyo Devataa Sharajanmaakshaya Iti Beejam Shaktidharokshaya Kaartikeya Iti Shaktih Kraunchadhara Iti Keelakam Shikhivaahana Iti Kavacham Shanmukhaaya Iti Dhyaanam Shreesubrahmanya Prasaadasiddhyarthe Jape Viniyogah |

Karanyaasah –
Om Sham Omkaarasvaroopaaya Ojodharaaya Ojasvine Suhridayaaya Hrishtachittaatmane Bhaasvararoopaaya Angushthaabhyaam Namah |
Om Ram Shatkonamadhyanilayaaya Shatkireetadharaaya Shreemate Shadaadhaaraaya Tarjaneebhyaam Namah |
Om Vam Shanmukhaaya Sharajanmane Shubhalakshanaaya Shikhivaahanaaya Madhyamaabhyaam Namah |
Om Nam Krishaanusambhavaaya Kavachine Kukkutadhvajaaya Anaamikaabhyaam Namah |
Om Bham Kandarpakotideepyamaanaaya Dvishadbaahave Dvaadashaakshaaya Kanishthikaabhyaam Namah |
Om Vam Khetadharaaya Khadgine Shaktihastaaya Karatalakaraprishthaabhyaam Namah |

Hridayaadinyaasah –
Om Sham Omkaarasvaroopaaya Ojodharaaya Ojasvine Suhridayaaya Hrishtachittaatmane Bhaasvararoopaaya Hridayaaya Namah |
Om Ram Shatkonamadhyanilayaaya Shatkireetadharaaya Shreemate Shadaadhaaraaya Shirase Svaahaa |
Om Vam Shanmukhaaya Sharajanmane Shubhalakshanaaya Shikhivaahanaaya Shikhaayai Vashat |
Om Nam Krishaanusambhavaaya Kavachine Kukkutadhvajaaya Kavachaaya Hum |
Om Bham Kandarpakotideepyamaanaaya Dvishadbaahave Dvaadashaakshaaya Netratrayaaya Vaushat |
Om Vam Khetadharaaya Khadgine Shaktihastaaya Astraaya Phat |
Bhoorbhuvassuvaromiti Digbandhah |

Dhyaanam |
Dhyaayetshanmukhamindukotisadrisham Ratnaprabhaashobhitam
Baalaarkadyutishatkireetavilasatkeyoorahaaraanvitam |
Karnaalambitakundalapravilasadgandasthalaashobhitam
Kaancheekankanakinkineeravayutam Shringaarasaarodayam || 1 ||

Dhyaayedeepsitasiddhidam Shivasutam Shreedvaadashaaksham Guham
Khetam Kukkutamankusham Cha Varadam Paasham Dhanushchakrakam |
Vajram Shaktimasim Cha Shoolamabhayam Dorbhirdhritam Shanmukham
Devam Chitramayooravaahanagatam Chitraambaraalankritam || 2 ||

Stotram |
Achintyashaktiranaghastvakshobhyastvaparaajitah |
Anaathavatsalomoghastvashokopyajarobhayah || 1 ||

Atyudaaro Hyaghaharastvagraganyodrijaasutah |
Anantamahimaapaaronantasaukhyapradovyayah || 2 ||

Anantamokshadonaadiraprameyoksharochyutah |
Akalmashobhiraamogradhuryashchaamitavikramah || 3 ||

[* Atulashchaamritoghoro Hyanantonantavikramah *]
Anaathanaatho Hyamalo Hyapramattomaraprabhuh |
Arindamokhilaadhaarastvanimaadigunograneeh || 4 ||

Achanchalomarastutyo Hyakalankomitaashanah |
Agnibhooranavadyaango Hyadbhutobheeshtadaayakah || 5 ||

Ateendriyoprameyaatmaa Hyadrishyovyaktalakshanah |
Aapadvinaashakastvaarya Aadhya Aagamasamstutah || 6 ||

Aartasamrakshanastvaadya Aanandastvaaryasevitah |
Aashriteshtaarthavarada Aanandyaartaphalapradah || 7 ||

Aashcharyaroopa Aananda Aapannaartivinaashanah |
Ibhavaktraanujastvishta Ibhaasuraharaatmajah || 8 ||

Itihaasashrutistutya Indrabhogaphalapradah |
Ishtaapoortaphalapraaptirishteshtavaradaayakah || 9 ||

Ihaamutreshtaphalada Ishtadastvindravanditah |
Eedaneeyastveeshaputra Eepsitaarthapradaayakah || 10 ||

Eetibheetiharashchedya Eeshanaatrayavarjitah |
Udaarakeertirudyogee Chotkrishtoruparaakramah || 11 ||

Utkrishtashaktirutsaaha Udaarashchotsavapriyah |
Ujjrimbha Udbhavashchogra Udagrashchogralochanah || 12 ||

Unmatta Ugrashamana Udvegaghnorageshvarah |
Uruprabhaavashchodeerna Umaaputra Udaaradheeh || 13 ||

Oordhvaretahsutastoordhvagatidastoorjapaalakah |
Oorjitastoordhvagastoordhva Oordhvalokaikanaayakah || 14 ||

Oorjaavaanoorjitodaara Oorjitorjitashaasanah |
Rishidevaganastutya Rinatrayavimochanah || 15 ||

Rijuroopo Hyrijukara Rijumaargapradarshanah |
Ritambharo Hyrijupreeta Rishabhastvriddhidastvritah || 16 ||

Lulitoddhaarako Lootabhavapaashaprabhanjanah |
Enaankadharasatputra Eka Enovinaashanah || 17 ||

Aishvaryadashchaindrabhogee Chaitihyashchaindravanditah |
Ojasvee Chaushadhisthaanamojodashchaudanapradah || 18 ||

Audaaryasheela Aumeya Augra Aunnatyadaayakah |
Audaarya Aushadhakara Aushadham Chaushadhaakarah || 19 ||

Amshumaanamshumaaleedya Ambikaatanayonnadah |
Andhakaarisutondhatvahaaree Chaambujalochanah || 20 ||

Astamaayomaraadheesho Hyaspashtostokapunyadah |
Astaamitrostaroopashchaaskhalatsugatidaayakah || 21 ||

Kaartikeyah Kaamaroopah Kumaarah Kraunchadaaranah |
Kaamadah Kaaranam Kaamyah Kamaneeyah Kripaakarah || 22 ||

Kaanchanaabhah Kaantiyuktah Kaamee Kaamapradah Kavih |
Keertikritkukkutadharah Kootasthah Kuvalekshanah || 23 ||

Kunkumaangah Klamaharah Kushalah Kukkutadhvajah |
Kushaanusambhavah Kroorah Krooraghnah Kalitaapahrit || 24 ||

Kaamaroopah Kalpataruh Kaantah Kaamitadaayakah |
Kalyaanakritkleshanaashah Kripaaluh Karunaakarah || 25 ||

Kalushaghnah Kriyaashaktih Kathorah Kavachee Kritee |
Komalaangah Kushapreetah Kutsitaghnah Kalaadharah || 26 ||

Khyaatah Khetadharah Khadgee Khatvaangee Khalanigrahah |
Khyaatipradah Khechareshah Khyaatehah Khecharastutah || 27 ||

Kharataapaharah Svasthah Khecharah Khecharaashrayah |
Khandendumaulitanayah Khelah Khecharapaalakah || 28 ||

Khasthalah Khanditaarkashcha Khechareejanapoojitah |
Gaangeyo Girijaaputro Gananaathaanujo Guhah || 29 ||

Goptaa Geervaanasamsevyo Gunaateeto Guhaashrayah |
Gatiprado Gunanidhih Gambheero Girijaatmajah || 30 ||

Goodharoopo Gadaharo Gunaadheesho Gunaagraneeh |
Godharo Gahano Gupto Garvaghno Gunavardhanah || 31 ||

Guhyo Gunajnyo Geetijnyo Gataatanko Gunaashrayah |
Gadyapadyapriyo Gunyo Gostuto Gaganecharah || 32 ||

Gananeeyacharitrashcha Gataklesho Gunaarnavah |
Ghoornitaaksho Ghrininidhih Ghanagambheeraghoshanah || 33 ||

Ghantaanaadapriyo Ghosho Ghoraaghaughavinaashanah |
Ghanaanando Gharmahantaa Ghrinaavaan Ghrishtipaatakah || 34 ||

Ghrinee Ghrinaakaro Ghoro Ghoradaityaprahaarakah |
Ghatitaishvaryasandoho Ghanaartho Ghanasankramah || 35 ||

Chitrakrichchitravarnashcha Chanchalashchapaladyutih |
Chinmayashchitsvaroopashcha Chiraanandashchirantanah || 36 ||

Chitrakelishchitratarashchintaneeyashchamatkritih |
Choraghnashchaturashchaarushchaameekaravibhooshanah || 37 ||

Chandraarkakotisadrishashchandramaulitanoobhavah |
Chhaaditaangashchhadmahantaa Chheditaakhilapaatakah || 38 ||

Chhedeekritatamahkleshashchhatreekritamahaayashaah |
Chhaaditaasheshasantaapashchhuritaamritasaagarah || 39 ||

Chhannatraigunyaroopashcha Chhaatehashchhinnasamshayah |
Chhandomayashchhandagaamee Chhinnapaashashchhavishchhadah || 40 ||

Jagaddhito Jagatpoojyo Jagajjyeshtho Jaganmayah |
Janako Jaahnaveesoonurjitaamitro Jagadguruh || 41 ||

Jayee Jitendriyo Jaitro Jaraamaranavarjitah |
Jyotirmayo Jagannaatho Jagajjeevo Janaashrayah || 42 ||

Jagatsevyo Jagatkartaa Jagatsaakshee Jagatpriyah |
Jambhaarivandyo Jayado Jagajjanamanoharah || 43 ||

Jagadaanandajanako Janajaadyaapahaarakah |
Japaakusumasankaasho Janalochanashobhanah || 44 ||

Janeshvaro Jitakrodho Janajanmanibarhanah |
Jayado Jantutaapaghno Jitadaityamahaavrajah || 45 ||

Jitamaayo Jitakrodho Jitasango Janapriyah |
Jhanjhaanilamahaavego Jharitaasheshapaatakah || 46 ||

Jharjhareekritadaityaugho Jhallareevaadyasampriyah |
Jnyaanamoortirjnyaanagamyo Jnyaanee Jnyaanamahaanidhih || 47 ||

Tankaaranrittavibhavah Tankavajradhvajaankitah |
Tankitaakhilalokashcha Tankitainastamoravih || 48 ||

Dambaraprabhavo Dambho Dambo Damarukapriyah | [damadda]
Damarotkatasannaado Dimbharoopasvaroopakah || 49 ||

Dhakkaanaadapreetikaro Dhaalitaasurasankulah |
Dhaukitaamarasandoho Dhundhivighneshvaraanujah || 50 ||

Tattvajnyastatvagasteevrastaporoopastapomayah |
Trayeemayastrikaalajnyastrimoortistrigunaatmakah || 51 ||

Tridasheshastaarakaaristaapaghnastaapasapriyah |
Tushtidastushtikritteekshnastaporoopastrikaalavit || 52 ||

Stotaa Stavyah Stavapreetah Stutih Stotram Stutipriyah |
Sthitah Sthaayee Sthaapakashcha Sthoolasookshmapradarshakah || 53 ||

Sthavishthah Sthavirah Sthoolah Sthaanadah Sthairyadah Sthirah |
Daanto Dayaaparo Daataa Duritaghno Duraasadah || 54 ||

Darshaneeyo Dayaasaaro Devadevo Dayaanidhih |
Duraadharsho Durvigaahyo Daksho Darpanashobhitah || 55 ||

Durdharo Daanasheelashcha Dvaadashaaksho Dvishadbhujah |
Dvishatkarno Dvishadbaahurdeenasantaapanaashanah || 56 ||

Dandashookeshvaro Devo Divyo Divyaakritirdamah |
Deerghavritto Deerghabaahurdeerghadrishtirdivaspatih || 57 ||

Dando Damayitaa Darpo Devasimho Dridhavratah |
Durlabho Durgamo Deepto Dushprekshyo Divyamandanah || 58 ||

Durodaraghno Duhkhaghno Duraarighno Dishaam Patih |
Durjayo Devasenesho Durjnyeyo Duratikramah || 59 ||

Dambho Driptashcha Devarshirdaivajnyo Daivachintakah |
Dhurandharo Dharmaparo Dhanado Dhritivardhanah || 60 ||

Dharmesho Dharmashaastrajnyo Dhanvee Dharmaparaayanah |
Dhanaadhyaksho Dhanapatirdhritimaandhootakilbishah || 61 ||

Dharmaheturdharmashooro Dharmakriddharmaviddhruvah |
Dhaataa Dheemaandharmachaaree Dhanyo Dhuryo Dhritavratah || 62 ||

Nityotsavo Nityatripto Nirlepo Nishchalaatmakah |
Niravadyo Niraadhaaro Nishkalanko Niranjanah || 63 ||

Nirmamo Nirahankaaro Nirmoho Nirupadravah |
Nityaanando Niraatanko Nishprapancho Niraamayah || 64 ||

Niravadyo Nireehashcha Nirdarsho Nirmalaatmakah |
Nityaanando Nirjaresho Nihsango Nigamastutah || 65 ||

Nishkantako Niraalambo Nishpratyooho Nirudbhavah |
Nityo Niyatakalyaano Nirvikalpo Niraashrayah || 66 ||

Netaa Nidhirnaikaroopo Niraakaaro Nadeesutah |
Pulindakanyaaramanah Purujitparamapriyah || 67 ||

Pratyakshamoortih Pratyakshah Pareshah Poornapunyadah |
Punyaakarah Punyaroopah Punyah Punyaparaayanah || 68 ||

Punyodayah Param Jyotih Punyakritpunyavardhanah |
Paraanandah Paratarah Punyakeertih Puraatanah || 69 ||

Prasannaroopah Praaneshah Pannagah Paapanaashanah |
Pranataartiharah Poornah Paarvateenandanah Prabhuh || 70 ||

Pootaatmaa Purushah Praanah Prabhavah Purushottamah |
Prasannah Paramaspashtah Parah Paribridhah Parah || 71 ||

Paramaatmaa Parabrahma Paraarthah Priyadarshanah |
Pavitrah Pushtidah Poortih Pingalah Pushtivardhanah || 72 ||

Paapahaaree Paashadharah Pramattaasurashikshakah |
Paavanah Paavakah Poojyah Poornaanandah Paraatparah || 73 ||

Pushkalah Pravarah Poorvah Pitribhaktah Purogamah |
Praanadah Praanijanakah Pradishtah Paavakodbhavah || 74 ||

Parabrahmasvaroopashcha Paramaishvaryakaaranam |
Parardhidah Pushtikarah Prakaashaatmaa Prataapavaan || 75 ||

Prajnyaaparah Prakrishtaarthah Prithuh Prithuparaakramah |
Phaneeshvarah Phanivarah Phanaamanivibhooshanah || 76 ||

Phaladah Phalahastashcha Phullaambujavilochanah |
Phaduchchaatitapaapaughah Phanilokavibhooshanah || 77 ||

Baahuleyo Brihadroopo Balishtho Balavaan Balee |
Brahmeshavishnuroopashcha Buddho Buddhimataam Varah || 78 ||

Baalaroopo Brahmagarbho Brahmachaaree Budhapriyah |
Bahushruto Bahumato Brahmanyo Braahmanapriyah || 79 ||

Balapramathano Brahmaa Bahuroopo Bahupradah |
Brihadbhaanutanoodbhooto Brihatseno Bileshayah || 80 ||

Bahubaahurbalashreemaan Bahudaityavinaashakah |
Biladvaaraantaraalastho Brihachchhaktidhanurdharah || 81 ||

Baalaarkadyutimaan Baalo Brihadvakshaa Brihaddhanuh |
Bhavyo Bhogeeshvaro Bhaavyo Bhavanaasho Bhavapriyah || 82 ||

Bhaktigamyo Bhayaharo Bhaavajnyo Bhaktasupriyah |
Bhuktimuktiprado Bhogee Bhagavaan Bhaagyavardhanah || 83 ||

Bhraajishnurbhaavano Bhartaa Bheemo Bheemaparaakramah |
Bhootido Bhootikridbhoktaa Bhootaatmaa Bhuvaneshvarah || 84 ||

Bhaavako Bheekaro Bheeshmo Bhaavakeshto Bhavodbhavah |
Bhavataapaprashamano Bhogavaan Bhootabhaavanah || 85 ||

Bhojyaprado Bhraantinaasho Bhaanumaan Bhuvanaashrayah |
Bhooribhogaprado Bhadro Bhajaneeyo Bhishagvarah || 86 ||

Mahaaseno Mahodaaro Mahaashaktirmahaadyutih |
Mahaabuddhirmahaaveeryo Mahotsaaho Mahaabalah || 87 ||

Mahaabhogee Mahaamaayee Medhaavee Mekhalee Mahaan |
Munistuto Mahaamaanyo Mahaanando Mahaayashaah || 88 ||

Mahorjito Maananidhirmanorathaphalapradah |
Mahodayo Mahaapunyo Mahaabalaparaakramah || 89 ||

Maanado Matido Maalee Muktaamaalaavibhooshanah |
Manoharo Mahaamukhyo Mahardhirmoortimaanmunih || 90 ||

Mahottamo Mahopaayo Mokshado Mangalapradah |
Mudaakaro Muktidaataa Mahaabhogo Mahoragah || 91 ||

Yashaskaro Yogayoniryogishtho Yaminaam Varah |
Yashasvee Yogapurusho Yogyo Yoganidhiryamee || 92 ||

Yatisevyo Yogayukto Yogavidyogasiddhidah |
Yantro Yantree Cha Yantrajnyo Yantravaanyantravaahakah || 93 ||

Yaatanaarahito Yogee Yogeesho Yoginaam Varah |
Ramaneeyo Ramyaroopo Rasajnyo Rasabhaavanah || 94 ||

Ranjano Ranjito Raagee Ruchiro Rudrasambhavah |
Ranapriyo Ranodaaro Raagadveshavinaashanah || 95 ||

Ratnaarchee Ruchiro Ramyo Roopalaavanyavigrahah |
Ratnaangadadharo Ratnabhooshano Ramaneeyakah || 96 ||

Ruchikridrochamaanashcha Ranjito Roganaashanah |
Raajeevaaksho Raajaraajo Raktamaalyaanulepanah || 97 ||

Raajadvedaagamastutyo Rajahsattvagunaanvitah |
Rajaneeshakalaaramyo Ratnakundalamanditah || 98 ||

Ratnasanmaulishobhaadhyo Rananmanjeerabhooshanah |
Lokaikanaatho Lokesho Lalito Lokanaayakah || 99 ||

Lokaraksho Lokashiksho Lokalochanaranjitah |
Lokabandhurlokadhaataa Lokatrayamahaahitah || 100 ||

Lokachoodaamanirlokavandyo Laavanyavigrahah |
Lokaadhyakshastu Leelaavaanlokottaragunaanvitah || 101 ||

Varishtho Varado Vaidyo Vishishto Vikramo Vibhuh |
Vibudhaagracharo Vashyo Vikalpaparivarjitah || 102 ||

Vipaasho Vigataatanko Vichitraango Virochanah |
Vidyaadharo Vishuddhaatmaa Vedaango Vibudhapriyah || 103 ||

Vachaskaro Vyaapakashcha Vijnyaanee Vinayaanvitah |
Vidvattamo Virodhighno Veero Vigataraagavaan || 104 ||

Veetabhaavo Vineetaatmaa Vedagarbho Vasupradah |
Vishvadeeptirvishaalaaksho Vijitaatmaa Vibhaavanah || 105 ||

Vedavedyo Vidheyaatmaa Veetadoshashcha Vedavit |
Vishvakarmaa Veetabhayo Vaageesho Vaasavaarchitah || 106 ||

Veeradhvamso Vishvamoortirvishvaroopo Varaasanah |
Vishaakho Vimalo Vaagmee Vidvaanvedadharo Vatuh || 107 ||

Veerachoodaamanirveero Vidyesho Vibudhaashrayah |
Vijayee Vinayee Vettaa Vareeyaanvirajaa Vasuh || 108 ||

Veeraghno Vijvaro Vedyo Vegavaanveeryavaanvashee |
Varasheelo Varaguno Vishoko Vajradhaarakah || 109 ||

Sharajanmaa Shaktidharah Shatrughnah Shikhivaahanah |
Shreemaan Shishtah Shuchih Shuddhah Shaashvatah Shrutisaagarah || 110 ||

Sharanyah Shubhadah Sharma Shishteshtah Shubhalakshanah |
Shaantah Shooladharah Shreshthah Shuddhaatmaa Shankarah Shivah || 111 ||

Shitikanthaatmajah Shoorah Shaantidah Shokanaashanah |
Shaanmaaturah Shanmukhashcha Shadgunaishvaryasamyutah || 112 ||

Shatchakrasthah Shadoormighnah Shadangashrutipaaragah |
Shadbhaavarahitah Shatkah Shatchhaastrasmritipaaragah || 113 ||

Shadvargadaataa Shadgreevah Shadarighnah Shadaashrayah |
Shatkireetadharah Shreemaan Shadaadhaarashcha Shatkramah || 114 ||

Shatkonamadhyanilayah Shandatvaparihaarakah |
Senaaneeh Subhagah Skandah Suraanandah Sataam Gatih || 115 ||

Subrahmanyah Suraadhyakshah Sarvajnyah Sarvadah Sukhee |
Sulabhah Siddhidah Saumyah Siddheshah Siddhisaadhanah || 116 ||

Siddhaarthah Siddhasankalpah Siddhasaadhuh Sureshvarah |
Subhujah Sarvadriksaakshee Suprasaadah Sanaatanah || 117 ||

Sudhaapatih Svayanjyotih Svayambhooh Sarvatomukhah |
Samarthah Satkritih Sookshmah Sughoshah Sukhadah Suhrit || 118 ||

Suprasannah Surashreshthah Susheelah Satyasaadhakah |
Sambhaavyah Sumanaah Sevyah Sakalaagamapaaragah || 119 ||

Suvyaktah Sachchidaanandah Suveerah Sujanaashrayah |
Sarvalakshanasampannah Satyadharmaparaayanah || 120 ||

Sarvadevamayah Satyah Sadaa Mrishtaannadaayakah |
Sudhaapee Sumatih Satyah Sarvavighnavinaashanah || 121 ||

Sarvaduhkhaprashamanah Sukumaarah Sulochanah |
Sugreevah Sudhritih Saarah Suraaraadhyah Suvikramah || 122 ||

Suraarighnah Svarnavarnah Sarparaajah Sadaa Shuchih |
Saptaarchirbhooh Suravarah Sarvaayudhavishaaradah || 123 ||

Hasticharmaambarasuto Hastivaahanasevitah |
Hastachitraayudhadharo Hritaagho Hasitaananah || 124 ||

Hemabhoosho Haridvarno Hrishtido Hrishtivardhanah |
Hemaadribhiddhamsaroopo Hunkaarahatakilbishah || 125 ||

Himaadrijaataatanujo Harikesho Hiranmayah |
Hridyo Hrishto Harisakho Hamso Hamsagatirhavih || 126 ||

Hiranyavarno Hitakriddharshado Hemabhooshanah |
Harapriyo Hitakaro Hatapaapo Harodbhavah || 127 ||

Kshemadah Kshemakritkshemyah Kshetrajnyah Kshaamavarjitah |
Kshetrapaalah Kshamaadhaarah Kshemakshetrah Kshamaakarah || 128 ||

Kshudraghnah Kshaantidah Kshemah Kshitibhooshah Kshamaashrayah |
Kshaalitaaghah Kshitidharah Ksheenasamrakshanakshamah || 129 ||

Kshanabhangurasannaddhaghanashobhikapardakah |
Kshitibhrinnaathatanayaamukhapankajabhaaskarah || 130 ||

Kshataahitah Ksharah Kshantaa Kshatadoshah Kshamaanidhih |
Kshapitaakhilasantaapah Kshapaanaathasamaananah || 131 ||

Uttara Nyaasah |
Karanyaasah –
Om Sham Omkaarasvaroopaaya Ojodharaaya Ojasvine Suhridayaaya Hrishtachittaatmane Bhaasvararoopaaya Angushthaabhyaam Namah |
Om Ram Shatkonamadhyanilayaaya Shatkireetadharaaya Shreemate Shadaadhaaraaya Tarjaneebhyaam Namah |
Om Vam Shanmukhaaya Sharajanmane Shubhalakshanaaya Shikhivaahanaaya Madhyamaabhyaam Namah |
Om Nam Krishaanusambhavaaya Kavachine Kukkutadhvajaaya Anaamikaabhyaam Namah |
Om Bham Kandarpakotideepyamaanaaya Dvishadbaahave Dvaadashaakshaaya Kanishthikaabhyaam Namah |
Om Vam Khetadharaaya Khadgine Shaktihastaaya Karatalakaraprishthaabhyaam Namah |

Hridayaadinyaasah –
Om Sham Omkaarasvaroopaaya Ojodharaaya Ojasvine Suhridayaaya Hrishtachittaatmane Bhaasvararoopaaya Hridayaaya Namah |
Om Ram Shatkonamadhyanilayaaya Shatkireetadharaaya Shreemate Shadaadhaaraaya Shirase Svaahaa |
Om Vam Shanmukhaaya Sharajanmane Shubhalakshanaaya Shikhivaahanaaya Shikhaayai Vashat |
Om Nam Krishaanusambhavaaya Kavachine Kukkutadhvajaaya Kavachaaya Hum |
Om Bham Kandarpakotideepyamaanaaya Dvishadbaahave Dvaadashaakshaaya Netratrayaaya Vaushat |
Om Vam Khetadharaaya Khadgine Shaktihastaaya Astraaya Phat |
Bhoorbhuvassuvaromiti Digvimokah |

Phalashruti |
Iti Naamnaam Sahasraani Shanmukhasya Cha Naarada |
Yah Pathechchhrinuyaadvaapi Bhaktiyuktena Chetasaa || 1 ||

Sa Sadyo Muchyate Paapairmanovaakkaayasambhavaih |
Aayurvriddhikaram Pumsaam Sthairyaveeryavivardhanam || 2 ||

Vaakyenaikena Vakshyaami Vaanchhitaartham Prayachchhati |
Tasmaatsarvaatmanaa Brahmanniyamena Japetsudheeh || 3 ||

Iti Skandapuraane Eeshvaraprokte Brahmanaaradasamvaade Shree Subrahmanya Sahasranaama Stotram |

Facebook Comments