Sri Lakshmi Sahasranama Stotram

28
Lakshmi Sahasranama Stotram

Sri Lakshmi Sahasranama is a hymn that consists of 1,000 names of the Hindu goddess Lakshmi. The hymn is a powerful stotram or hymn that praises the goddess’s attributes. It is mentioned in both the Brahma Purana and the Skanda Purana. The hymn is said to create a frequency in the chanter’s aura that attracts money. It is also said to help the chanter live a life free from sorrow. Some also chant the name for liberation or Mukti from this life.

Sri Lakshmi Sahasranama is said to have been taught by Sage Sanath Kumara to 12 sages. In the Skanda Purana, it is documented that the goddess Lakshmi stated that even if the hymn is chanted without belief, she would stay forever in their clan. The goddess Lakshmi is the Hindu goddess of wealth, love, prosperity, fortune, and beauty. She is the wife and active energy of Vishnu.

Sri Lakshmi Sahasranama Stotram – श्री लक्ष्मी सहस्रनाम स्तोत्रम्

नाम्नां साष्टसहस्रं च ब्रूहि गार्ग्य महामते ।
महालक्ष्म्या महादेव्याः भुक्तिमुक्त्यर्थसिद्धये ॥ १ ॥

गार्ग्य उवाच ।
सनत्कुमारमासीनं द्वादशादित्यसन्निभम् ।
अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ २ ॥

सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै ।
भुक्तिमुक्तिप्रदं जप्यमनुब्रूहि दयानिधे ॥ ३ ॥

सनत्कुमार भगवन् सर्वज्ञोऽसि विशेषतः ।
आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥ ४ ॥

खिद्यन्ति मानवाः सर्वे धनाभावेन केवलम् ।
सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥ ५ ॥

दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता ।
केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी ॥ ६ ॥

सर्वासां सारभूतैका विद्यानां केन कीर्तिता ।
प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे ॥ ७ ॥

सनत्कुमार उवाच ।
साधु पृष्टं महाभागाः सर्वलोकहितैषिणः ।
महतामेष धर्मश्च नान्येषामिति मे मतिः ॥ ८ ॥

ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः ।
सम्प्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम् ॥ ९ ॥

यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः ।
किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात् ॥ १० ॥

अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्र महामन्त्रस्य आनन्दकर्दमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः विष्णुमाया शक्तिः महालक्ष्मीः परा देवता श्रीमहालक्ष्मी प्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः । श्रीमित्यादि षडङ्गन्यासः ।

ध्यानम् ।
पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम् ।
पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशम् ॥ १ ॥

पूर्णेन्दुवदनां दिव्यरत्नाभरणभूषिताम् ।
वरदाभयहस्ताढ्यां ध्यायेच्चन्द्रसहोदरीम् ॥ २ ॥

इच्छारूपां भगवतः सच्चिदानन्दरूपिणीम् ।
सर्वज्ञां सर्वजननीं विष्णुवक्षःस्थलालयाम् ।
दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम् ॥ ३ ॥

स्तोत्रम् –
ओं नित्यागताऽनन्तनित्या नन्दिनी जनरञ्जनी ।
नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी ॥ १ ॥

महालक्ष्मीर्महाकाली महाकन्या सरस्वती ।
भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ॥ २ ॥

ईशावास्या महामाया महादेवी महेश्वरी ।
हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी ॥ ३ ॥

नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी ।
सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी ॥ ४ ॥

त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा ।
वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना ॥ ५ ॥

भद्रकाली कराली च महाकाली तिलोत्तमा ।
काली करालवक्त्रान्ता कामाक्षी कामदा शुभा ॥ ६ ॥

चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी ।
त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा ॥ ७ ॥

सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी ।
उमा भगवती दुर्गा चान्द्री दाक्षायणी शिवा ॥ ८ ॥

प्रत्यङ्गिरा धरा वेला लोकमाता हरिप्रिया ।
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ९ ॥

अरूपा बहुरूपा च विरूपा विश्वरूपिणी ।
पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा ॥ १० ॥

काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता ।
देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः ॥ ११ ॥

सङ्ख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही ।
यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ॥ १२ ॥

ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा ।
दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी ॥ १३ ॥

सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी ।
गायत्री सोमसम्भूतिः सावित्री प्रणवात्मिका ॥ १४ ॥

शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता ।
सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी ॥ १५ ॥

जया च विजया चैव जयन्ती चाऽपराजिता ।
कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी ॥ १६ ॥

सर्वज्ञशक्तिः श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका ।
इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी ॥ १७ ॥

यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी ।
अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा ॥ १८ ॥

सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी ।
वेदशास्त्रप्रभा देवी षडङ्गादिपदक्रमा ॥ १९ ॥ [प्रमा]

शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी ।
व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी ॥ २० ॥

एकाक्षरपरा तारा भवबन्धविनाशिनी ।
विश्वम्भरा धराधारा निराधाराऽधिकस्वरा ॥ २१ ॥

राका कुहूरमावास्या पूर्णिमाऽनुमतिर्द्युतिः ।
सिनीवाली शिवाऽवश्या वैश्वदेवी पिशङ्गिला ॥ २२ ॥

पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी ।
दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी ॥ २३ ॥

शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी ।
युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी ॥ २४ ॥

अयुद्धा युद्धरूपा च शान्ता शान्तिस्वरूपिणी ।
गङ्गा सरस्वतीवेणीयमुनानर्मदापगा ॥ २५ ॥

समुद्रवसनावासा ब्रह्माण्डश्रेणिमेखला ।
पञ्चवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा ॥ २६ ॥

रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी ।
कालिका चक्रिका देवी सत्या तु वटुकास्थिता ॥ २७ ॥

तरुणी वारुणी नारी ज्येष्ठादेवी सुरेश्वरी ।
विश्वम्भराधरा कर्त्री गलार्गलविभञ्जनी ॥ २८ ॥

सन्ध्यारात्रिदिवाज्योत्स्ना कलाकाष्ठा निमेषिका ।
उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी ॥ २९ ॥

कपिला कीलिकाऽशोका मल्लिकानवमल्लिका ।
देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका ॥ ३० ॥

कौशिकी वैदिकी देवी सौरी रूपाधिकाऽतिभा ।
दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा ॥ ३१ ॥

श्रीः सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका ।
श्रद्धा मेधा कृतिः प्रज्ञा धारणा कान्तिरेव च ॥ ३२ ॥

श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी ।
विरक्तिर्व्यापिनी माया सर्वमायाप्रभञ्जनी ॥ ३३ ॥

माहेन्द्री मन्त्रिणी सिंही चेन्द्रजालस्वरूपिणी ।
अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता ॥ ३४ ॥

ईषणात्रयनिर्मुक्ता सर्वरोगविवर्जिता ।
योगिध्यानान्तगम्या च योगध्यानपरायणा ॥ ३५ ॥

त्रयीशिखा विशेषज्ञा वेदान्तज्ञानरूपिणी ।
भारती कमला भाषा पद्मा पद्मवती कृतिः ॥ ३६ ॥

गौतमी गोमती गौरी ईशाना हंसवाहनी ।
नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा ॥ ३७ ॥

चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसम्भवा ।
स्तम्भिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी ॥ ३८ ॥

मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी ।
रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी ॥ ३९ ॥

देवदुर्गा महादुर्गा स्वप्नदुर्गाऽष्टभैरवी ।
सूर्यचन्द्राग्निरूपा च ग्रहनक्षत्ररूपिणी ॥ ४० ॥

बिन्दुनादकलातीता बिन्दुनादकलात्मिका ।
दशवायुजयाकारा कलाषोडशसम्युता ॥ ४१ ॥

काश्यपी कमलादेवी नादचक्रनिवासिनी ।
मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी ॥ ४२ ॥

अविद्या शार्वरी भुञ्जा जम्भासुरनिबर्हिणी ।
श्रीकाया श्रीकला शुभ्रा कर्मनिर्मूलकारिणी ॥ ४३ ॥

आदिलक्ष्मीर्गुणाधारा पञ्चब्रह्मात्मिका परा ।
श्रुतिर्ब्रह्ममुखावासा सर्वसम्पत्तिरूपिणी ॥ ४४ ॥

मृतसञ्जीवनी मैत्री कामिनी कामवर्जिता ।
निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा ॥ ४५ ॥

सपर्या गुणिनी भिन्ना निर्गुणा खण्डिताऽशुभा ।
स्वामिनी वेदिनी शक्या शाम्बरी चक्रधारिणी ॥ ४६ ॥

दण्डिनी मुण्डिनी व्याघ्री शिखिनी सोमसंहतिः ।
चिन्तामणिश्चिदानन्दा पञ्चबाणप्रबोधिनी ॥ ४७ ॥

बाणश्रेणिः सहस्राक्षी सहस्रभुजपादुका ।
सन्ध्यावलिस्त्रिसन्ध्याख्या ब्रह्माण्डमणिभूषणा ॥ ४८ ॥

वासवी वारुणीसेना कुलिका मन्त्ररञ्जनी ।
जितप्राणस्वरूपा च कान्ता काम्यवरप्रदा ॥ ४९ ॥

मन्त्रब्राह्मणविद्यार्था नादरूपा हविष्मती ।
आथर्वणिः श्रुतिः शून्या कल्पनावर्जिता सती ॥ ५० ॥

सत्ताजातिः प्रमाऽमेयाऽप्रमितिः प्राणदा गतिः ।
अवर्णा पञ्चवर्णा च सर्वदा भुवनेश्वरी ॥ ५१ ॥

त्रैलोक्यमोहिनी विद्या सर्वभर्त्री क्षराऽक्षरा ।
हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी ॥ ५२ ॥

कैवल्यपदवीरेखा सूर्यमण्डलसंस्थिता ।
सोममण्डलमध्यस्था वह्निमण्डलसंस्थिता ॥ ५३ ॥

वायुमण्डलमध्यस्था व्योममण्डलसंस्थिता ।
चक्रिका चक्रमध्यस्था चक्रमार्गप्रवर्तिनी ॥ ५४ ॥

कोकिलाकुलचक्रेशा पक्षतिः पङ्क्तिपावनी ।
सर्वसिद्धान्तमार्गस्था षड्वर्णावरवर्जिता ॥ ५५ ॥

शररुद्रहरा हन्त्री सर्वसंहारकारिणी ।
पुरुषा पौरुषी तुष्टिः सर्वतन्त्रप्रसूतिका ॥ ५६ ॥

अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी ।
भार्गवी याजुषीविद्या सर्वोपनिषदास्थिता ॥ ५७ ॥ [भूजुषीविद्या]

व्योमकेशाऽखिलप्राणा पञ्चकोशविलक्षणा ।
पञ्चकोशात्मिका प्रत्यक्पञ्चब्रह्मात्मिका शिवा ॥ ५८ ॥

जगज्जराजनित्री च पञ्चकर्मप्रसूतिका ।
वाग्देव्याभरणाकारा सर्वकाम्यस्थितास्थितिः ॥ ५९ ॥

अष्टादशचतुष्षष्टिपीठिका विद्ययायुता ।
कालिकाकर्षणश्यामा यक्षिणी किन्नरेश्वरी ॥ ६० ॥

केतकी मल्लिकाऽशोका वाराही धरणी ध्रुवा ।
नारसिंही महोग्रास्या भक्तानामार्तिनाशिनी ॥ ६१ ॥

अन्तर्बला स्थिरा लक्ष्मीर्जरामरणनाशिनी ।
श्रीरञ्जिता महाकाया सोमसूर्याग्निलोचना ॥ ६२ ॥

अदितिर्देवमाता च अष्टपुत्राऽष्टयोगिनी ।
अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः ॥ ६३ ॥

दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी ।
ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी ॥ ६४ ॥

शाकम्भरी महाशोणा गरुडोपरिसंस्थिता ।
सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा ॥ ६५ ॥

अकारादिक्षकारान्ता सर्वविद्याधिदेवता ।
मन्त्रव्याख्याननिपुणा ज्योतिःशास्त्रैकलोचना ॥ ६६ ॥

इडापिङ्गलिकामध्यसुषुम्णा ग्रन्थिभेदिनी ।
कालचक्राश्रयोपेता कालचक्रस्वरूपिणी ॥ ६७ ॥

वैशारदी मतिश्रेष्ठा वरिष्ठा सर्वदीपिका ।
वैनायकी वरारोहा श्रोणिवेला बहिर्वलिः ॥ ६८ ॥

जम्भिनी जृम्भिणी जृम्भकारिणी गणकारिका । [जम्भ]
शरणी चक्रिकाऽनन्ता सर्वव्याधिचिकित्सकी ॥ ६९ ॥

देवकी देवसङ्काशा वारिधिः करुणाकरा ।
शर्वरी सर्वसम्पन्ना सर्वपापप्रभञ्जिनी ॥ ७० ॥

एकमात्रा द्विमात्रा च त्रिमात्रा च तथा परा ।
अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थार्थपराऽपरा ॥ ७१ ॥

एकवीरा विशेषाख्या षष्ठीदेवी मनस्विनी ।
नैष्कर्म्या निष्कलालोका ज्ञानकर्माधिका गुणा ॥ ७२ ॥

सबन्ध्वानन्दसन्दोहा व्योमाकाराऽनिरूपिता ।
गद्यपद्यात्मिका वाणी सर्वालङ्कारसम्युता ॥ ७३ ॥

साधुबन्धपदन्यासा सर्वौको घटिकावलिः ।
षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता ॥ ७४ ॥

आदित्यवर्णा चापर्णा कामिनी वररूपिणी ।
ब्रह्माणी ब्रह्मसन्ताना वेदवागीश्वरी शिवा ॥ ७५ ॥

पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुता ।
सद्योवेदवती सर्वा हंसी विद्याधिदेवता ॥ ७६ ॥

विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी ।
वैदिकी वेदरूपा च कालिका कालरूपिणी ॥ ७७ ॥

नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी ।
हिरण्यवर्णरूपा च हिरण्यपदसम्भवा ॥ ७८ ॥

कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता ।
ब्रह्मसम्पत्तिरूपा च ब्रह्मसम्पत्तिकारिणी ॥ ७९ ॥

वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी ।
एकाक्षरपराऽऽयुक्ता सर्वदारिद्र्यभञ्जिनी ॥ ८० ॥

पाशाङ्कुशान्विता दिव्या वीणाव्याख्याक्षसूत्रभृत् ।
एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभञ्जिनी ॥ ८१ ॥

साङ्ख्या साङ्ख्यवती ज्वाला ज्वलन्ती कामरूपिणी ।
जाग्रन्ती सर्वसम्पत्तिः सुषुप्ता स्वेष्टदायिनी ॥ ८२ ॥

कपालिनी महादंष्ट्रा भ्रुकुटीकुटिलानना ।
सर्वावासा सुवासा च बृहत्यष्टिश्च शक्वरी ॥ ८३ ॥

छन्दोगणप्रतिष्ठा च कल्माषी करुणात्मिका ।
चक्षुष्मती महाघोषा खड्गचर्मधराऽशनिः ॥ ८४ ॥

शिल्पवैचित्र्यविद्योता सर्वतोभद्रवासिनी ।
अचिन्त्यलक्षणाकारा सूत्रभाष्यनिबन्धना ॥ ८५ ॥

सर्ववेदार्थसम्पत्तिः सर्वशास्त्रार्थमातृका ।
अकारादिक्षकारान्तसर्ववर्णकृतस्थला ॥ ८६ ॥

सर्वलक्ष्मीः सदानन्दा सारविद्या सदाशिवा ।
सर्वज्ञा सर्वशक्तिश्च खेचरीरूपगोच्छ्रिता ॥ ८७ ॥

अणिमादिगुणोपेता परा काष्ठा परा गतिः ।
हंसयुक्तविमानस्था हंसारूढा शशिप्रभा ॥ ८८ ॥

भवानी वासनाशक्तिराकृतिस्थाखिलाऽखिला ।
तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गाविनोदिनी ॥ ८९ ॥

वर्षा च वार्षिका चैव ऋग्यजुस्सामरूपिणी ।
महानदी नदीपुण्याऽगण्यपुण्यगुणक्रिया ॥ ९० ॥

समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा ।
नामाक्षरपरा देवी उपसर्गनखाञ्चिता ॥ ९१ ॥

निपातोरुद्वयीजङ्घा मातृका मन्त्ररूपिणी ।
आसीना च शयाना च तिष्ठन्ती धावनाधिका ॥ ९२ ॥

लक्ष्यलक्षणयोगाढ्या ताद्रूप्यगणनाकृतिः ।
सैकरूपा नैकरूपा सेन्दुरूपा तदाकृतिः ॥ ९३ ॥

समासतद्धिताकारा विभक्तिवचनात्मिका ।
स्वाहाकारा स्वधाकारा श्रीपत्यर्धाङ्गनन्दिनी ॥ ९४ ॥

गम्भीरा गहना गुह्या योनिलिङ्गार्धधारिणी ।
शेषवासुकिसंसेव्या चपला वरवर्णिनी ॥ ९५ ॥

कारुण्याकारसम्पत्तिः कीलकृन्मन्त्रकीलिका ।
शक्तिबीजात्मिका सर्वमन्त्रेष्टाऽक्षयकामना ॥ ९६ ॥

आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना ।
सत्यज्ञानात्मिका नन्दा ब्राह्मी ब्रह्म सनातनी ॥ ९७ ॥

अविद्यावासना मायाप्रकृतिः सर्वमोहिनी ।
शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी ॥ ९८ ॥

वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी ।
विराट् स्वाहा स्वधा शुद्धा निरुपास्तिः सुभक्तिगा ॥ ९९ ॥

निरूपिताद्वयी विद्या नित्यानित्यस्वरूपिणी ।
वैराजमार्गसञ्चारा सर्वसत्पथदर्शिनी ॥ १०० ॥

जालन्धरी मृडानी च भवानी भवभञ्जनी ।
त्रैकालिकज्ञानतन्तुस्त्रिकालज्ञानदायिनी ॥ १०१ ॥

नादातीता स्मृतिः प्रज्ञा धात्रीरूपा त्रिपुष्करा ।
पराजिता विधानज्ञा विशेषितगुणात्मिका ॥ १०२ ॥

हिरण्यकेशिनी हेमब्रह्मसूत्रविचक्षणा ।
असङ्ख्येयपरार्धान्तस्वरव्यञ्जनवैखरी ॥ १०३ ॥

मधुजिह्वा मधुमती मधुमासोदया मधुः ।
माधवी च महाभागा मेघगम्भीरनिस्वना ॥ १०४ ॥

ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा ।
नाभौ वह्निशिखाकारा ललाटे चन्द्रसन्निभा ॥ १०५ ॥

भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि ।
कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्यर्चितोदया ॥ १०६ ॥

ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका ।
ब्रह्माण्डगर्भिणी बाला सप्तावरणदेवता ॥ १०७ ॥

वैराजोत्तमसाम्राज्या कुमारकुशलोदया ।
बगला भ्रमराम्बा च शिवदूती शिवात्मिका ॥ १०८ ॥

मेरुविन्ध्यादिसंस्थाना काश्मीरपुरवासिनी ।
योगनिद्रा महानिद्रा विनिद्रा राक्षसाश्रिता ॥ १०९ ॥

सुवर्णदा महागङ्गा पञ्चाख्या पञ्चसंहतिः ।
सुप्रजाता सुवीरा च सुपोषा सुपतिः शिवा ॥ ११० ॥

सुगृहा रक्तबीजान्ता हतकन्दर्पजीविका ।
समुद्रव्योममध्यस्था समबिन्दुसमाश्रया ॥ १११ ॥

सौभाग्यरसजीवातुः सारासारविवेकदृक् ।
त्रिवल्यादिसुपुष्टाङ्गा भारती भरताश्रिता ॥ ११२ ॥

नादब्रह्ममयीविद्या ज्ञानब्रह्ममयीपरा ।
ब्रह्मनाडी निरुक्तिश्च ब्रह्मकैवल्यसाधनम् ॥ ११३ ॥

कालिकेयमहोदारवीर्यविक्रमरूपिणी ।
बडबाग्निशिखावक्त्रा महाकबलतर्पणा ॥ ११४ ॥

महाभूता महादर्पा महासारा महाक्रतुः ।
पञ्चभूतमहाग्रासा पञ्चभूताधिदेवता ॥ ११५ ॥

सर्वप्रमाणा सम्पत्तिः सर्वरोगप्रतिक्रिया ।
ब्रह्माण्डान्तर्बहिर्व्याप्ता विष्णुवक्षोविभूषिणी ॥ ११६ ॥

शाङ्करी विधिवक्त्रस्था प्रवरा वरहेतुकी ।
हेममाला शिखामाला त्रिशिखा पञ्चलोचना ॥ ११७ ॥ [पञ्चमोचना]

सर्वागमसदाचारमर्यादा यातुभञ्जनी ।
पुण्यश्लोकप्रबन्धाढ्या सर्वान्तर्यामिरूपिणी ॥ ११८ ॥

सामगानसमाराध्या श्रोत्रकर्णरसायनम् ।
जीवलोकैकजीवातुर्भद्रोदारविलोकना ॥ ११९ ॥

तटित्कोटिलसत्कान्तिस्तरुणी हरिसुन्दरी ।
मीननेत्रा च सेन्द्राक्षी विशालाक्षी सुमङ्गला ॥ १२० ॥

सर्वमङ्गलसम्पन्ना साक्षान्मङ्गलदेवता ।
देहहृद्दीपिका दीप्तिर्जिह्मपापप्रणाशिनी ॥ १२१ ॥

अर्धचन्द्रोल्लसद्दंष्ट्रा यज्ञवाटीविलासिनी ।
महादुर्गा महोत्साहा महादेवबलोदया ॥ १२२ ॥

डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट् ।
निरङ्कुशा नाकिवन्द्या षडाधाराधिदेवता ॥ १२३ ॥

भुवनज्ञानिनिःश्रेणी भुवनाकारवल्लरी ।
शाश्वती शाश्वताकारा लोकानुग्रहकारिणी ॥ १२४ ॥

सारसी मानसी हंसी हंसलोकप्रदायिनी ।
चिन्मुद्रालङ्कृतकरा कोटिसूर्यसमप्रभा ॥ १२५ ॥

सुखप्राणिशिरोरेखा सददृष्टप्रदायिनी ।
सर्वसाङ्कर्यदोषघ्नी ग्रहोपद्रवनाशिनी ॥ १२६ ॥

क्षुद्रजन्तुभयघ्नी च विषरोगादिभञ्जनी ।
सदाशान्ता सदाशुद्धा गृहच्छिद्रनिवारिणी ॥ १२७ ॥

कलिदोषप्रशमनी कोलाहलपुरस्थिता ।
गौरी लाक्षणिकी मुख्या जघन्याकृतिवर्जिता ॥ १२८ ॥

माया विद्या मूलभूता वासवी विष्णुचेतना ।
वादिनी वसुरूपा च वसुरत्नपरिच्छदा ॥ १२९ ॥

छान्दसी चन्द्रहृदया मन्त्रस्वच्छन्दभैरवी ।
वनमाला वैजयन्ती पञ्चदिव्यायुधात्मिका ॥ १३० ॥

पीताम्बरमयी चञ्चत्कौस्तुभा हरिकामिनी ।
नित्या तथ्या रमा रामा रमणी मृत्युभञ्जनी ॥ १३१ ॥

ज्येष्ठा काष्ठा धनिष्ठान्ता शराङ्गी निर्गुणप्रिया ।
मैत्रेया मित्रविन्दा च शेष्यशेषकलाशया ॥ १३२ ॥

वाराणसीवासरता चार्यावर्तजनस्तुता ।
जगदुत्पत्तिसंस्थानसंहारत्रयकारणम् ॥ १३३ ॥

त्वमम्ब विष्णुसर्वस्वं नमस्तेऽस्तु महेश्वरि ।
नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये ॥ १३४ ॥

सिद्धलक्ष्मीर्महाकालि महालक्ष्मि नमोऽस्तु ते ।
सद्योजातादिपञ्चाग्निरूपा पञ्चकपञ्चकम् ॥ १३५ ॥

यन्त्रलक्ष्मीर्भवत्यादिराद्याद्ये ते नमो नमः ।
सृष्ट्यादिकारणाकारवितते दोषवर्जिते ॥ १३६ ॥

जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि नमोऽस्तु ते ।
नवकोटिमहाशक्तिसमुपास्यपदाम्बुजे ॥ १३७ ॥

कनत्सौवर्णरत्नाढ्ये सर्वाभरणभूषिते ।
अनन्तनित्यमहिषी प्रपञ्चेश्वरनायकि ॥ १३८ ॥

अत्युच्छ्रितपदान्तस्थे परमव्योमनायकि ।
नाकपृष्ठगताराध्ये विष्णुलोकविलासिनि ॥ १३९ ॥

वैकुण्ठराजमहिषि श्रीरङ्गनगराश्रिते ।
रङ्गनायकि भूपुत्रि कृष्णे वरदवल्लभे ॥ १४० ॥

कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते ।
मातुलुङ्गमयं खेटं सौवर्णचषकं तथा ॥ १४१ ॥

पद्मद्वयं पूर्णकुम्भं कीरं च वरदाभये ।
पाशमङ्कुशकं शङ्खं चक्रं शूलं कृपाणिकाम् ॥ १४२ ॥

धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रती ।
अष्टादशभुजे लक्ष्मीर्महाष्टादशपीठगे ॥ १४३ ॥

भूमिनीलादिसंसेव्ये स्वामिचित्तानुवर्तिनि ।
पद्मे पद्मालये पद्मि पूर्णकुम्भाभिषेचिते ॥ १४४ ॥

इन्दिरेन्दीवराभाक्षि क्षीरसागरकन्यके ।
भार्गवि त्वं स्वतन्त्रेच्छा वशीकृतजगत्पतिः ॥ १४५ ॥

मङ्गलं मङ्गलानां त्वं देवतानां च देवता ।
त्वमुत्तमोत्तमानां च त्वं श्रेयः परमामृतम् ॥ १४६ ॥

धनधान्याभिवृद्धिश्च सार्वभौमसुखोच्छ्रया ।
आन्दोलिकादिसौभाग्यं मत्तेभादिमहोदयः ॥ १४७ ॥

पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलादिकम् ।
आयुरारोग्यसम्पत्तिरष्टैश्वर्यं त्वमेव हि ॥ १४८ ॥

परमेशविभूतिश्च सूक्ष्मात्सूक्ष्मतरा गतिः ।
सदयापाङ्गसन्दत्तब्रह्मेन्द्रादिपदस्थितिः ॥ १४९ ॥

अव्याहतमहाभाग्यं त्वमेवाक्षोभ्यविक्रमः ।
समन्वयश्च वेदानामविरोधस्त्वमेव हि ॥ १५० ॥

निःश्रेयसपदप्राप्तिसाधनं फलमेव च ।
श्रीमन्त्रराजराज्ञी च श्रीविद्या क्षेमकारिणी ॥ १५१ ॥

श्रीम्बीजजपसन्तुष्टा ऐं ह्रीं श्रीं बीजपालिका ।
प्रपत्तिमार्गसुलभा विष्णुप्रथमकिङ्करी ॥ १५२ ॥

क्लीङ्कारार्थसवित्री च सौमङ्गल्याधिदेवता ।
श्रीषोडशाक्षरीविद्या श्रीयन्त्रपुरवासिनी ॥ १५३ ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥ १५४ ॥

पुनः पुनर्नमस्तेऽस्तु साष्टाङ्गमयुतं पुनः ।

सनत्कुमार उवाच ।
एवं स्तुता महालक्ष्मीर्ब्रह्मरुद्रादिभिः सुरैः ।
नमद्भिरार्तैर्दीनैश्च निस्सत्वैर्भोगवर्जितैः ॥ १ ॥

ज्येष्ठाजुष्टैश्च निःश्रीकैः संसारात्स्वपरायणैः ।
विष्णुपत्नी ददौ तेषां दर्शनं दृष्टितर्पणम् ॥ २ ॥

शरत्पूर्णेन्दुकोट्याभधवलापाङ्गवीक्षणैः ।
सर्वान् सत्वसमाविष्टांश्चक्रे हृष्टा वरं ददौ ॥ ३ ॥

महालक्ष्मीरुवाच ।
नाम्नां साष्टसहस्रं मे प्रमादाद्वापि यः सकृत् ।
कीर्तयेत्तत्कुले सत्यं वसाम्याचन्द्रतारकम् ॥ ४ ॥

किं पुनर्नियमाज्जप्तुर्मदेकशरणस्य च ।
मातृवत्सानुकम्पाहं पोषकी स्यामहर्निशम् ॥ ५ ॥

मन्नाम स्तुवतां लोके दुर्लभं नास्ति चिन्तितम् ।
मत्प्रसादेन सर्वेऽपि स्वस्वेष्टार्थमवाप्स्यथ ॥ ६ ॥

लुप्तवैष्णवधर्मस्य मद्व्रतेष्ववकीर्णिनः ।
भक्तिप्रपत्तिहीनस्य वन्द्यो नाम्नां जपोऽपि मे ॥ ७ ॥

तस्मादवश्यं तैर्दोषैर्विहीनः पापवर्जितः ।
जपेत्साष्टसहस्रं मे नाम्नां प्रत्यहमादरात् ॥ ८ ॥

साक्षादलक्ष्मीपुत्रोऽपि दुर्भाग्योऽप्यलसोऽपि वा ।
अप्रयत्नोऽपि मूढोऽपि विकलः पतितोऽपि च ॥ ९ ॥

अवश्यं प्राप्नुयाद्भाग्यं मत्प्रसादेन केवलम् ।
स्पृहेयमचिराद्देवा वरदानाय जापिनः ।
ददामि सर्वमिष्टार्थं लक्ष्मीति स्मरतां ध्रुवम् ॥ १० ॥

सनत्कुमार उवाच ।
इत्युक्त्वान्तर्दधे लक्ष्मीर्वैष्णवी भगवत्कला ।
इष्टापूर्तं च सुकृतं भागधेयं च चिन्तितम् ॥ ११ ॥

स्वं स्वं स्थानं च भोगं च विजयं लेभिरे सुराः ।
तदेतद्प्रवदाम्यद्य लक्ष्मीनामसहस्रकम् ।
योगिनः पठत क्षिप्रं चिन्तितार्थानवाप्स्यथ ॥ १२ ॥

गार्ग्य उवाच ।
सनत्कुमारयोगीन्द्र इत्युक्त्वा स दयानिधिः ।
अनुगृह्य ययौ क्षिप्रं तांश्च द्वादशयोगिनः ॥ १३ ॥

तस्मादेतद्रहस्यं च गोप्यं जप्यं प्रयत्नतः ।
अष्टम्यां च चतुर्दश्यां नवम्यां भृगुवासरे ॥ १४ ॥

पौर्णमास्याममायां च पर्वकाले विशेषतः ।
जपेद्वा नित्यकार्येषु सर्वान्कामानवाप्नुयात् ॥ १५ ॥

इति श्रीस्कन्दपुराणे सनत्कुमारसंहितायां श्री लक्ष्मी सहस्रनाम स्तोत्रम् ॥

Lakshmi Sahasranama

Sri Lakshmi Sahasranama Stotram in English Lyrics

The Lakshmi Sahasranama Stotram is a sacred hymn that contains a thousand names (sahasranama) of Goddess Lakshmi, the Hindu goddess of wealth, prosperity, and abundance. This stotram is recited by devotees as an act of devotion, seeking the blessings of Goddess Lakshmi for material and spiritual prosperity, as well as for overall well-being.

Lakshmi Sahasranamam means the ‘thousand names of Goddess Lakshmi.’ It is a powerful Stotram or hymn that extols the attributes of the Goddess and describes the thousand names she is known by. It is believed that chanting Sri Lakshmi Sahasranamam lyrics can bring many benefits. This Stotram is found in the Skanda Purana.. Devotees recite this stotram during various occasions, especially during festivals like Diwali, Lakshmi Puja, and other auspicious events.

Naamnaam Saashtasahasram Cha Broohi Gaargya Mahaamate |
Mahaalakshmyaa Mahaadevyaah Bhuktimuktyarthasiddhaye || 1 ||

Gaargya Uvaacha |
Sanatkumaaramaaseenam Dvaadashaadityasannibham |
Aprichchhanyogino Bhaktyaa Yoginaamarthasiddhaye || 2 ||

Sarvalaukikakarmabhyo Vimuktaanaam Hitaaya Vai |
Bhuktimuktipradam Japyamanubroohi Dayaanidhe || 3 ||

Sanatkumaara Bhagavan Sarvajnyosi Visheshatah |
Aastikyasiddhaye Nreenaam Kshipradharmaarthasaadhanam || 4 ||

Khidyanti Maanavaassarve Dhanaabhaavena Kevalam |
Siddhyanti Dhaninonyasya Naiva Dharmaarthakaamanaah || 5 ||

Daaridryadhvamsinee Naama Kena Vidyaa Prakeertitaa |
Kena Vaa Brahmavidyaapi Kena Mrityuvinaashinee || 6 ||

Sarvaasaam Saarabhootaikaa Vidyaanaam Kena Keertitaa |
Pratyakshasiddhidaa Brahman Taamaachakshva Dayaanidhe || 7 ||

Sanatkumaara Uvaacha |
Saadhu Prishtam Mahaabhaagaah Sarvalokahitaishinah |
Mahataamesha Dharmashcha Naanyeshaamiti Me Matih || 8 ||

Brahmavishnumahaadevamahendraadimahaatmabhih |
Samproktam Kathayaamyadya Lakshmeenaamasahasrakam || 9 ||

Yasyochchaaranamaatrena Daaridryaanmuchyate Narah |
Kim Punastajjapaajjaapee Sarveshtaarthaanavaapnuyaat || 10 ||

Asya Shreelakshmeedivyasahasranaamastotra Mahaamantrasya Aanandakardamachikleetendiraasutaadayo Mahaatmaano Maharshayah Anushtupchhandah Vishnumaayaa Shaktih Mahaalakshmeeh Paraadevataa Shreemahaalakshmee Prasaadadvaaraa Sarveshtaarthasiddhyarthe Jape Viniyogah | Shreemityaadi Shadanganyaasah |

Dhyaanam |
Padmanaabhapriyaam Deveem Padmaaksheem Padmavaasineem |
Padmavaktraam Padmahastaam Vande Padmaamaharnisham || 1 ||

Poornenduvadanaam Divyaratnaabharanabhooshitaam |
Varadaabhayahastaadhyaam Dhyaayechchandrasahodareem || 2 ||

Ichchhaaroopaam Bhagavatassachchidaanandaroopineem |
Sarvajnyaam Sarvajananeem Vishnuvakshassthalaalayaam |
Dayaalumanisham Dhyaayetsukhasiddhisvaroopineem || 3 ||

Stotram –
Om Nityaagataanantanityaa Nandinee Janaranjanee |
Nityaprakaashinee Chaiva Svaprakaashasvaroopinee || 1 ||

Mahaalakshmeermahaakaalee Mahaakanyaa Sarasvatee |
Bhogavaibhavasandhaatree Bhaktaanugrahakaarinee || 2 ||

Eeshaavaasyaa Mahaamaayaa Mahaadevee Maheshvaree |
Hrillekhaa Paramaa Shaktirmaatrikaabeejaroopinee || 3 ||

Nityaanandaa Nityabodhaa Naadinee Janamodinee |
Satyapratyayanee Chaiva Svaprakaashaatmaroopinee || 4 ||

Tripuraa Bhairavee Vidyaa Hamsaa Vaageeshvaree Shivaa |
Vaagdevee Cha Mahaaraatrih Kaalaraatristrilochanaa || 5 ||

Bhadrakaalee Karaalee Cha Mahaakaalee Tilottamaa |
Kaalee Karaalavaktraantaa Kaamaakshee Kaamadaa Shubhaa || 6 ||

Chandikaa Chandaroopeshaa Chaamundaa Chakradhaarinee |
Trailokyajayinee Devee Trailokyavijayottamaa || 7 ||

Siddhalakshmeeh Kriyaalakshmeermokshalakshmeeh Prasaadinee |
Umaa Bhagavatee Durgaa Chaandree Daakshaayanee Shivaa || 8 ||

Pratyangiraa Dharaa Velaa Lokamaataa Haripriyaa |
Paarvatee Paramaa Devee Brahmavidyaapradaayinee || 9 ||

Aroopaa Bahuroopaa Cha Viroopaa Vishvaroopinee |
Panchabhootaatmikaa Vaanee Panchabhootaatmikaa Paraa || 10 ||

Kaalee Maa Panchikaa Vaagmee Havihpratyadhidevataa |
Devamaataa Sureshaanaa Devagarbhaambikaa Dhritih || 11 ||

Sankhyaa Jaatih Kriyaashaktih Prakritirmohinee Mahee |
Yajnyavidyaa Mahaavidyaa Guhyavidyaa Vibhaavaree || 12 ||

Jyotishmatee Mahaamaataa Sarvamantraphalapradaa |
Daaridryadhvamsinee Devee Hridayagranthibhedinee || 13 ||

Sahasraadityasankaashaa Chandrikaa Chandraroopinee |
Gaayatree Somasambhootissaavitree Pranavaatmikaa || 14 ||

Shaankaree Vaishnavee Braahmee Sarvadevanamaskritaa |
Sevyadurgaa Kuberaakshee Karaveeranivaasinee || 15 ||

Jayaa Cha Vijayaa Chaiva Jayantee Chaaparaajitaa |
Kubjikaa Kaalikaa Shaastree Veenaapustakadhaarinee || 16 ||

Sarvajnyashaktih Shreeshaktirbrahmavishnushivaatmikaa |
Idaapingalikaamadhyamrinaaleetanturoopinee || 17 ||

Yajnyeshaanee Prathaa Deekshaa Dakshinaa Sarvamohinee |
Ashtaangayoginee Devee Nirbeejadhyaanagocharaa || 18 ||

Sarvateerthasthitaa Shuddhaa Sarvaparvatavaasinee |
Vedashaastrapramaa Devee Shadangaadipadakramaa || 19 ||

Shivaa Dhaatree Shubhaanandaa Yajnyakarmasvaroopinee |
Vratinee Menakaa Devee Brahmaanee Brahmachaarinee || 20 ||

Ekaaksharaparaa Taaraa Bhavabandhavinaashinee |
Vishvambharaa Dharaadhaaraa Niraadhaaraadhikasvaraa || 21 ||

Raakaa Kuhooramaavaasyaa Poornimaanumatirdyutih |
Sineevaalee Shivaavashyaa Vaishvadevee Pishangilaa || 22 ||

Pippalaa Cha Vishaalaakshee Rakshoghnee Vrishtikaarinee |
Dushtavidraavinee Devee Sarvopadravanaashinee || 23 ||

Shaaradaa Sharasandhaanaa Sarvashastrasvaroopinee |
Yuddhamadhyasthitaa Devee Sarvabhootaprabhanjanee || 24 ||

Ayuddhaa Yuddharoopaa Cha Shaantaa Shaantisvaroopinee |
Gangaa Sarasvateeveneeyamunaanarmadaapagaa || 25 ||

Samudravasanaavaasaa Brahmaandashrenimekhalaa |
Panchavaktraa Dashabhujaa Shuddhasphatikasannibhaa || 26 ||

Raktaa Krishnaa Sitaa Peetaa Sarvavarnaa Nireeshvaree |
Kaalikaa Chakrikaa Devee Satyaa Tu Batukaasthitaa || 27 ||

Tarunee Vaarunee Naaree Jyeshthaadevee Sureshvaree |
Vishvambharaadharaa Kartree Galaargalavibhanjanee || 28 ||

Sandhyaaraatrirdivaajyotsnaa Kalaakaashthaa Nimeshikaa |
Urvee Kaatyaayanee Shubhraa Samsaaraarnavataarinee || 29 ||

Kapilaa Keelikaashokaa Mallikaanavamallikaa |
Devikaa Nandikaa Shaantaa Bhanjikaa Bhayabhanjikaa || 30 ||

Kaushikee Vaidikee Devee Sauree Roopaadhikaatibhaa |
Digvastraa Navavastraa Cha Kanyakaa Kamalodbhavaa || 31 ||

Shreessaumyalakshanaateetadurgaa Sootraprabodhikaa |
Shraddhaa Medhaa Kritih Prajnyaa Dhaaranaa Kaantireva Cha || 32 ||

Shrutih Smritirdhritirdhanyaa Bhootirishtirmaneeshinee |
Viraktirvyaapinee Maayaa Sarvamaayaaprabhanjanee || 33 ||

Maahendree Mantrinee Simhee Chendrajaalasvaroopinee |
Avasthaatrayanirmuktaa Gunatrayavivarjitaa || 34 ||

Eeshanatrayanirmuktaa Sarvarogavivarjitaa |
Yogidhyaanaantagamyaa Cha Yogadhyaanaparaayanaa || 35 ||

Trayeeshikhaa Visheshajnyaa Vedaantajnyaanaroopinee |
Bhaaratee Kamalaa Bhaashaa Padmaa Padmavatee Kritih || 36 ||

Gautamee Gomatee Gauree Eeshaanaa Hamsavaahinee |
Naaraayanee Prabhaadhaaraa Jaahnavee Shankaraatmajaa || 37 ||

Chitraghantaa Sunandaa Shreermaanavee Manusambhavaa |
Stambhinee Kshobhinee Maaree Bhraaminee Shatrumaarinee || 38 ||

Mohinee Dveshinee Veeraa Aghoraa Rudraroopinee |
Rudraikaadashinee Punyaa Kalyaanee Laabhakaarinee || 39 ||

Devadurgaa Mahaadurgaa Svapnadurgaashtabhairavee |
Sooryachandraagniroopaa Cha Grahanakshatraroopinee || 40 ||

Bindunaadakalaateetaa Bindunaadakalaatmikaa |
Dashavaayujayaakaaraa Kalaashodashasamyutaa || 41 ||

Kaashyapee Kamalaadevee Naadachakranivaasinee |
Mridaadhaaraa Sthiraa Guhyaa Devikaa Chakraroopinee || 42 ||

Avidyaa Shaarvaree Bhunjaa Jambhaasuranibarhinee |
Shreekaayaa Shreekalaa Shubhraa Karmanirmoolakaarinee || 43 ||

Aadilakshmeergunaadhaaraa Panchabrahmaatmikaa Paraa |
Shrutirbrahmamukhaavaasaa Sarvasampattiroopinee || 44 ||

Mritasanjeevanee Maitree Kaaminee Kaamavarjitaa |
Nirvaanamaargadaa Devee Hamsinee Kaashikaa Kshamaa || 45 ||

Saparyaa Guninee Bhinnaa Nirgunaa Khanditaashubhaa |
Svaaminee Vedinee Shakyaa Shaambaree Chakradhaarinee || 46 ||

Dandinee Mundinee Vyaaghree Shikhinee Somasamhatih |
Chintaamanishchidaanandaa Panchabaanaprabodhinee || 47 ||

Baanashrenissahasraakshee Sahasrabhujapaadukaa |
Sandhyaavalistrisandhyaakhyaa Brahmaandamanibhooshanaa || 48 ||

Vaasavee Vaaruneesenaa Kulikaa Mantraranjanee |
Jitapraanasvaroopaa Cha Kaantaa Kaamyavarapradaa || 49 ||

Mantrabraahmanavidyaarthaa Naadaroopaa Havishmatee |
Aatharvanih Shrutih Shoonyaa Kalpanaavarjitaa Satee || 50 ||

Sattaajaatih Pramaameyaapramitih Praanadaa Gatih |
Avarnaa Panchavarnaa Cha Sarvadaa Bhuvaneshvaree || 51 ||

Trailokyamohinee Vidyaa Sarvabhartree Ksharaaksharaa |
Hiranyavarnaa Harinee Sarvopadravanaashinee || 52 ||

Kaivalyapadaveerekhaa Sooryamandalasamsthitaa |
Somamandalamadhyasthaa Vahnimandalasamsthitaa || 53 ||

Vaayumandalamadhyasthaa Vyomamandalasamsthitaa |
Chakrikaa Chakramadhyasthaa Chakramaargapravartinee || 54 ||

Kokilaakulachakreshaa Pakshatih Panktipaavanee |
Sarvasiddhaantamaargasthaa Shadvarnaavaravarjitaa || 55 ||

Shararudraharaa Hantree Sarvasamhaarakaarinee |
Purushaa Paurushee Tushtissarvatantraprasootikaa || 56 ||

Ardhanaareeshvaree Devee Sarvavidyaapradaayinee |
Bhaargavee Yaajusheevidyaa Sarvopanishadaasthitaa || 57 || [bhoojusheevidyaa]

Vyomakeshaakhilapraanaa Panchakoshavilakshanaa |
Panchakoshaatmikaa Pratyakpanchabrahmaatmikaa Shivaa || 58 ||

Jagajjaraajanitree Cha Panchakarmaprasootikaa |
Vaagdevyaabharanaakaaraa Sarvakaamyasthitaasthitih || 59 ||

Ashtaadashachatushshashtipeethikaa Vidyayaayutaa |
Kaalikaakarshanashyaamaa Yakshinee Kinnareshvaree || 60 ||

Ketakee Mallikaashokaa Vaaraahee Dharanee Dhruvaa |
Naarasimhee Mahograasyaa Bhaktaanaamaartinaashinee || 61 ||

Antarbalaa Sthiraa Lakshmeerjaraamarananaashinee |
Shreeranjitaa Mahaakaayaa Somasooryaagnilochanaa || 62 ||

Aditirdevamaataa Cha Ashtaputraashtayoginee |
Ashtaprakritirashtaashtavibhraajadvikritaakritih || 63 ||

Durbhikshadhvamsinee Devee Seetaa Satyaa Cha Rukminee |
Khyaatijaa Bhaargavee Devee Devayonistapasvinee || 64 ||

Shaakambharee Mahaashonaa Garudoparisamsthitaa |
Simhagaa Vyaaghragaa Devee Vaayugaa Cha Mahaadrigaa || 65 ||

Akaaraadikshakaaraantaa Sarvavidyaadhidevataa |
Mantravyaakhyaananipunaa Jyotishshaastraikalochanaa || 66 ||

Idaapingalikaamadhyasushumnaa Granthibhedinee |
Kaalachakraashrayopetaa Kaalachakrasvaroopinee || 67 ||

Vaishaaradee Matishreshthaa Varishthaa Sarvadeepikaa |
Vainaayakee Varaarohaa Shronivelaa Bahirvalih || 68 ||

Jambhinee Jrimbhinee Jambhakaarinee Ganakaarikaa | [jrimbha]
Sharanee Chakrikaanantaa Sarvavyaadhichikitsakee || 69 ||

Devakee Devasankaashaa Vaaridhih Karunaakaraa |
Sharvaree Sarvasampannaa Sarvapaapaprabhanjanee || 70 ||

Ekamaatraa Dvimaatraa Cha Trimaatraa Cha Tathaa Paraa |
Ardhamaatraa Paraa Sookshmaa Sookshmaarthaarthaparaaparaa || 71 ||

Ekaveeraa Visheshaakhyaa Shashtheedevee Manasvinee |
Naishkarmyaa Nishkalaalokaa Jnyaanakarmaadhikaa Gunaa || 72 ||

Sabandhvaanandasandohaa Vyomaakaaraaniroopitaa |
Gadyapadyaatmikaa Vaanee Sarvaalankaarasamyutaa || 73 ||

Saadhubandhapadanyaasaa Sarvauko Ghatikaavalih |
Shatkarmaa Karkashaakaaraa Sarvakarmavivarjitaa || 74 ||

Aadityavarnaa Chaaparnaa Kaaminee Vararoopinee |
Brahmaanee Brahmasantaanaa Vedavaageeshvaree Shivaa || 75 ||

Puraananyaayameemaamsaadharmashaastraagamashrutaa |
Sadyovedavatee Sarvaa Hamsee Vidyaadhidevataa || 76 ||

Vishveshvaree Jagaddhaatree Vishvanirmaanakaarinee |
Vaidikee Vedaroopaa Cha Kaalikaa Kaalaroopinee || 77 ||

Naaraayanee Mahaadevee Sarvatattvapravartinee |
Hiranyavarnaroopaa Cha Hiranyapadasambhavaa || 78 ||

Kaivalyapadavee Punyaa Kaivalyajnyaanalakshitaa |
Brahmasampattiroopaa Cha Brahmasampattikaarinee || 79 ||

Vaarunee Vaarunaaraadhyaa Sarvakarmapravartinee |
Ekaaksharaparaayuktaa Sarvadaaridryabhanjinee || 80 ||

Paashaankushaanvitaa Divyaa Veenaavyaakhyaakshasootrabhrit |
Ekamoortistrayeemoortirmadhukaitabhabhanjinee || 81 ||

Saankhyaa Saankhyavatee Jvaalaa Jvalantee Kaamaroopinee |
Jaagrantee Sarvasampattissushuptaa Sveshtadaayinee || 82 ||

Kapaalinee Mahaadamshtraa Bhrukuteekutilaananaa |
Sarvaavaasaa Suvaasaa Cha Brihatyashtishcha Shakvaree || 83 ||

Chhandoganapratishthaa Cha Kalmaashee Karunaatmikaa |
Chakshushmatee Mahaaghoshaa Khadgacharmadharaashanih || 84 ||

Shilpavaichitryavidyotaa Sarvatobhadravaasinee |
Achintyalakshanaakaaraa Sootrabhaashyanibandhanaa || 85 ||

Sarvavedaarthasampattih Sarvashaastraarthamaatrikaa |
Akaaraadikshakaaraantasarvavarnakritasthalaa || 86 ||

Sarvalakshmeessadaanandaa Saaravidyaa Sadaashivaa |
Sarvajnyaa Sarvashaktishcha Khechareeroopagochchhritaa || 87 ||

Animaadigunopetaa Paraa Kaashthaa Paraa Gatih |
Hamsayuktavimaanasthaa Hamsaaroodhaa Shashiprabhaa || 88 ||

Bhavaanee Vaasanaashaktiraakritisthaakhilaakhilaa |
Tantraheturvichitraangee Vyomagangaavinodinee || 89 ||

Varshaa Cha Vaarshikaa Chaiva Rigyajussaamaroopinee |
Mahaanadee Nadeepunyaaganyapunyagunakriyaa || 90 ||

Samaadhigatalabhyaarthaa Shrotavyaa Svapriyaa Ghrinaa |
Naamaaksharaparaa Devee Upasarganakhaanchitaa || 91 ||

Nipaatorudvayeejanghaa Maatrikaa Mantraroopinee |
Aaseenaa Cha Shayaanaa Cha Tishthantee Dhaavanaadhikaa || 92 ||

Lakshyalakshanayogaadhyaa Taadroopyagananaakritih |
Saikaroopaa Naikaroopaa Senduroopaa Tadaakritih || 93 ||

Samaasataddhitaakaaraa Vibhaktivachanaatmikaa |
Svaahaakaaraa Svadhaakaaraa Shreepatyardhaanganandinee || 94 ||

Gambheeraa Gahanaa Guhyaa Yonilingaardhadhaarinee |
Sheshavaasukisamsevyaa Chapalaa Varavarninee || 95 ||

Kaarunyaakaarasampattih Keelakrinmantrakeelikaa |
Shaktibeejaatmikaa Sarvamantreshtaakshayakaamanaa || 96 ||

Aagneyee Paarthivaa Aapyaa Vaayavyaa Vyomaketanaa |
Satyajnyaanaatmikaa Nandaa Braahmee Brahma Sanaatanee || 97 ||

Avidyaavaasanaa Maayaaprakritissarvamohinee |
Shaktirdhaaranashaktishcha Chidachichchhaktiyoginee || 98 ||

Vaktraarunaa Mahaamaayaa Mareechirmadamardinee |
Viraat Svaahaa Svadhaa Shuddhaa Nirupaastissubhaktigaa || 99 ||

Niroopitaadvayee Vidyaa Nityaanityasvaroopinee |
Vairaajamaargasanchaaraa Sarvasatpathadarshinee || 100 ||

Jaalandharee Mridaanee Cha Bhavaanee Bhavabhanjanee |
Traikaalikajnyaanatantustrikaalajnyaanadaayinee || 101 ||

Naadaateetaa Smritih Prajnyaa Dhaatreeroopaa Tripushkaraa |
Paraajitaa Vidhaanajnyaa Visheshitagunaatmikaa || 102 ||

Hiranyakeshinee Hemabrahmasootravichakshanaa |
Asankhyeyaparaardhaantasvaravyanjanavaikharee || 103 ||

Madhujihvaa Madhumatee Madhumaasodayaa Madhuh |
Maadhavee Cha Mahaabhaagaa Meghagambheeranisvanaa || 104 ||

Brahmavishnumaheshaadijnyaatavyaarthavisheshagaa |
Naabhau Vahnishikhaakaaraa Lalaate Chandrasannibhaa || 105 ||

Bhroomadhye Bhaaskaraakaaraa Sarvataaraakritirhridi |
Krittikaadibharanyantanakshatreshtyarchitodayaa || 106 ||

Grahavidyaatmikaa Jyotirjyotirvinmatijeevikaa |
Brahmaandagarbhinee Baalaa Saptaavaranadevataa || 107 ||

Vairaajottamasaamraajyaa Kumaarakushalodayaa |
Bagalaa Bhramaraambaa Cha Shivadootee Shivaatmikaa || 108 ||

Meruvindhyaadisamsthaanaa Kaashmeerapuravaasinee |
Yoganidraa Mahaanidraa Vinidraa Raakshasaashritaa || 109 ||

Suvarnadaa Mahaagangaa Panchaakhyaa Panchasamhatih |
Suprajaataa Suveeraa Cha Suposhaa Supatishshivaa || 110 ||

Sugrihaa Raktabeejaantaa Hatakandarpajeevikaa |
Samudravyomamadhyasthaa Samabindusamaashrayaa || 111 ||

Saubhaagyarasajeevaatussaaraasaaravivekadrik |
Trivalyaadisupushtaangaa Bhaaratee Bharataashritaa || 112 ||

Naadabrahmamayeevidyaa Jnyaanabrahmamayeeparaa |
Brahmanaadee Niruktishcha Brahmakaivalyasaadhanam || 113 ||

Kaalikeyamahodaaraveeryavikramaroopinee |
Badabaagnishikhaavaktraa Mahaakabalatarpanaa || 114 ||

Mahaabhootaa Mahaadarpaa Mahaasaaraa Mahaakratuh |
Panchabhootamahaagraasaa Panchabhootaadhidevataa || 115 ||

Sarvapramaanaa Sampattih Sarvarogapratikriyaa |
Brahmaandaantarbahirvyaaptaa Vishnuvakshovibhooshinee || 116 ||

Shaankaree Vidhivaktrasthaa Pravaraa Varahetukee |
Hemamaalaa Shikhaamaalaa Trishikhaa Panchalochanaa || 117 || [panchamochanaa]

Sarvaagamasadaachaaramaryaadaa Yaatubhanjanee |
Punyashlokaprabandhaadhyaa Sarvaantaryaamiroopinee || 118 ||

Saamagaanasamaaraadhyaa Shrotrakarnarasaayanam |
Jeevalokaikajeevaaturbhadrodaaravilokanaa || 119 ||

Tatitkotilasatkaantistarunee Harisundaree |
Meenanetraa Cha Sendraakshee Vishaalaakshee Sumangalaa || 120 ||

Sarvamangalasampannaa Saakshaanmangaladevataa |
Dehahriddeepikaa Deeptirjihmapaapapranaashinee || 121 ||

Ardhachandrollasaddamshtraa Yajnyavaateevilaasinee |
Mahaadurgaa Mahotsaahaa Mahaadevabalodayaa || 122 ||

Daakineedyaa Shaakineedyaa Saakineedyaa Samastajut |
Nirankushaa Naakivandyaa Shadaadhaaraadhidevataa || 123 ||

Bhuvanajnyaaninihshrenee Bhuvanaakaaravallaree |
Shaashvatee Shaashvataakaaraa Lokaanugrahakaarinee || 124 ||

Saarasee Maanasee Hamsee Hamsalokapradaayinee |
Chinmudraalankritakaraa Kotisooryasamaprabhaa || 125 ||

Sukhapraanishirorekhaa Sadadrishtapradaayinee |
Sarvasaankaryadoshaghnee Grahopadravanaashinee || 126 ||

Kshudrajantubhayaghnee Cha Visharogaadibhanjanee |
Sadaashaantaa Sadaashuddhaa Grihachchhidranivaarinee || 127 ||

Kalidoshaprashamanee Kolaahalapurasthitaa |
Gauree Laakshanikee Mukhyaa Jaghanyaakritivarjitaa || 128 ||

Maayaa Vidyaa Moolabhootaa Vaasavee Vishnuchetanaa |
Vaadinee Vasuroopaa Cha Vasuratnaparichchhadaa || 129 ||

Chhaandasee Chandrahridayaa Mantrasvachchhandabhairavee |
Vanamaalaa Vaijayantee Panchadivyaayudhaatmikaa || 130 ||

Peetaambaramayee Chanchatkaustubhaa Harikaaminee |
Nityaa Tathyaa Ramaa Raamaa Ramanee Mrityubhanjinee || 131 ||

Jyeshthaa Kaashthaa Dhanishthaantaa Sharaangee Nirgunapriyaa |
Maitreyaa Mitravindaa Cha Sheshyasheshakalaashayaa || 132 ||

Vaaraanaseevaasarataa Chaaryaavartajanastutaa |
Jagadutpattisamsthaanasamhaaratrayakaaranam || 133 ||

Tvamamba Vishnusarvasvam Namastestu Maheshvari |
Namaste Sarvalokaanaam Jananyai Punyamoortaye || 134 ||

Siddhalakshmeermahaakaali Mahaalakshmi Namostu Te |
Sadyojaataadipanchaagniroopaa Panchakapanchakam || 135 ||

Yantralakshmeerbhavatyaadiraadyaadye Te Namo Namah |
Srishtyaadikaaranaakaaravitate Doshavarjite || 136 ||

Jagallakshmeerjaganmaatarvishnupatni Namostu Te |
Navakotimahaashaktisamupaasyapadaambuje || 137 ||

Kanatsauvarnaratnaadhye Sarvaabharanabhooshite |
Anantanityamahishee Prapancheshvaranaayaki || 138 ||

Atyuchchhritapadaantasthe Paramavyomanaayaki |
Naakaprishthagataaraadhye Vishnulokavilaasini || 139 ||

Vaikuntharaajamahishi Shreeranganagaraashrite |
Ranganaayaki Bhooputri Krishne Varadavallabhe || 140 ||

Kotibrahmaadisamsevye Kotirudraadikeertite |
Maatulungamayam Khetam Sauvarnachashakam Tathaa || 141 ||

Padmadvayam Poornakumbham Keeram Cha Varadaabhaye |
Paashamankushakam Shankham Chakram Shoolam Kripaanikaam || 142 ||

Dhanurbaanau Chaakshamaalaam Chinmudraamapi Bibhratee |
Ashtaadashabhuje Lakshmeermahaashtaadashapeethage || 143 ||

Bhoomineelaadisamsevye Svaamichittaanuvartini |
Padme Padmaalaye Padmi Poornakumbhaabhishechite || 144 ||

Indirendindiraabhaakshi Ksheerasaagarakanyake |
Bhaargavi Tvam Svatantrechchhaa Vasheekritajagatpatih || 145 ||

Mangalam Mangalaanaam Tvam Devataanaam Cha Devataa |
Tvamuttamottamaanaam Cha Tvam Shreyah Paramaamritam || 146 ||

Dhanadhaanyaabhivriddhishcha Saarvabhaumasukhochchhrayaa |
Aandolikaadisaubhaagyam Mattebhaadimahodayah || 147 ||

Putrapautraabhivriddhishcha Vidyaabhogabalaadikam |
Aayuraarogyasampattirashtaishvaryam Tvameva Hi || 148 ||

Parameshavibhootishcha Sookshmaatsookshmataraa Gatih |
Sadayaapaangasandattabrahmendraadipadasthitih || 149 ||

Avyaahatamahaabhaagyam Tvamevaakshobhyavikramah |
Samanvayashcha Vedaanaamavirodhastvameva Hi || 150 ||

Nihshreyasapadapraaptisaadhanam Phalameva Cha |
Shreemantraraajaraajnyee Cha Shreevidyaa Kshemakaarinee || 151 ||

Shreembeejajapasantushtaa Aim Hreem Shreem Beejapaalikaa |
Prapattimaargasulabhaa Vishnuprathamakinkaree || 152 ||

Kleenkaaraarthasavitree Cha Saumangalyaadhidevataa |
Shreeshodashaakshareevidyaa Shreeyantrapuravaasinee || 153 ||

Sarvamangalamaangalye Shive Sarvaarthasaadhike |
Sharanye Tryambake Devi Naaraayani Namostu Te || 154 ||

Punah Punarnamastestu Saashtaangamayutam Punah |

Sanatkumaara Uvaacha |
Evam Stutaa Mahaalakshmeerbrahmarudraadibhissuraih |
Namadbhiraartairdeenaishcha Nissatvairbhogavarjitaih || 1 ||

Jyeshthaajushtaishcha Nihshreekaissamsaaraatsvaparaayanaih |
Vishnupatnee Dadau Teshaam Darshanam Drishtitarpanam || 2 ||

Sharatpoornendukotyaabhadhavalaapaangaveekshanaih |
Sarvaan Satvasamaavishtaamshchakre Hrishtaa Varam Dadau || 3 ||

Mahaalakshmeeruvaacha |
Naamnaam Saashtasahasram Me Pramaadaadvaapi Yassakrit |
Keertayettatkule Satyam Vasaamyaachandrataarakam || 4 ||

Kim Punarniyamaajjapturmadekasharanasya Cha |
Maatrivatsaanukampaaham Poshakee Syaamaharnisham || 5 ||

Mannaama Stuvataam Loke Durlabham Naasti Chintitam |
Matprasaadena Sarvepi Svasveshtaarthamavaapsyatha || 6 ||

Luptavaishnavadharmasya Madvrateshvavakeerninah |
Bhaktiprapattiheenasya Vandyo Naamnaam Japopi Me || 7 ||

Tasmaadavashyam Tairdoshairviheenah Paapavarjitah |
Japetsaashtasahasram Me Naamnaam Pratyahamaadaraat || 8 ||

Saakshaadalakshmeeputropi Durbhaagyopyalasopi Vaa |
Aprayatnopi Moodhopi Vikalah Patitopi Cha || 9 ||

Avashyam Praapnuyaadbhaagyam Matprasaadena Kevalam |
Spriheyamachiraaddevaa Varadaanaaya Jaapinah |
Dadaami Sarvamishtaartham Lakshmeeti Smarataam Dhruvam || 10 ||

Sanatkumaara Uvaacha |
Ityuktvaantardadhe Lakshmeervaishnavee Bhagavatkalaa |
Ishtaapoortam Cha Sukritam Bhaagadheyam Cha Chintitam || 11 ||

Svam Svam Sthaanam Cha Bhogam Cha Vijayam Lebhire Suraah |
Tadetadpravadaamyadya Lakshmeenaamasahasrakam |
Yoginah Pathata Kshipram Chintitaarthaanavaapsyatha || 12 ||

Gaargya Uvaacha |
Sanatkumaarayogeendra Ityuktvaa Sa Dayaanidhih |
Anugrihya Yayau Kshipram Taamshcha Dvaadashayoginah || 13 ||

Tasmaadetadrahasyam Cha Gopyam Japyam Prayatnatah |
Ashtamyaam Cha Chaturdashyaam Navamyaam Bhriguvaasare || 14 ||

Paurnamaasyaamamaayaam Cha Parvakaale Visheshatah |
Japedvaa Nityakaaryeshu Sarvaankaamaanavaapnuyaat || 15 ||

Iti Shreeskandapuraane Sanatkumaarasamhitaayaam Lakshmeesahasranaamastotram Sampoornam ||

Benefits of reciting Sri Lakshmi Sahasranamam 

  • It is said that chanting the Lakshmi Sahasranamam creates a frequency in the chanter’s aura so that he attracts money.
  • The true chanting and divine help in gaining a life free from sorrow. 
  • Some also chant the name for liberation or Mukti from this life.
  • Women who are planning for a child can also recite their names.
  • The regular chant can ward off the evil from the devotee’s life.
  • The devotees get a contended and long life.
  • It also helps the devotees in getting relief from health problems.
  • It also frees the chanter from any afflictions due to ill-effects of any dosha in a horoscope 

Please feel free to download Sri Lakshmi Sahasranamam Stotram PDF. 

Also View:

108 Names of Lakshmi | 1000 Names of Lakshmi ji | 24 Names of Lakshmi Ji | 32 Names of Lakshmi Ji

Lakshmi Ashtothara Satanamavali Stotram | Ashta Lakshmi Stotram | Lakshmi Mata Wallpaper | Shree Lakshmi Chalisa | Sri Lakshmi Sahasranama Stotram

Facebook Comments